________________
२८
प्रमोदाविवृतिसंवलितं
घटस्य रूपादय इत्येवाभिलापः। अवच्छेदकविनिर्लोकेनैकत्र बहुत्वं त्वनुशासनोपग्रहेणैव नयः प्रकाशयतीति नै. कघटादौ 'घटाः' इत्यादिप्रयोगापन्तिः । साधुत्वनान्त्या जायमानहाने च विषयावाधरूपप्रामाण्य सत्त्वेऽपि स्वावच्छेदकधर्मानबंधारणेन स्व-परव्यवसायित्वलक्षणं न सत्त्वस्य पर्यायार्थिकनयेन पर्याये सत्वस्य विवक्षया तु घटोऽस्ति, रूपादयः सन्तीति, धर्म-धर्मिभान विवक्षया घटल्य रूपादय इत्येक्मभीष्टाः प्रयोगा भाविताः । इदानीं यदर्थमयं विचार उपदर्शितस्तमधिकृत्याऽऽह-अवच्छेदकेति-एक घटमुद्दिश्य घटा इति प्रयोगस्तदोपपद्येत द्रव्यात्मनैकस्यापि पर्यायात्मना बहुत्वमिति कृत्वेति पर्यायात्मत्वं यद्वहुत्वाबच्छेदकं तदमिलापकस्यापि तत्प्रयोगघटकत्वे, अथवा “दाराः पुंलि च भूमन्येव" इति यथाऽनुशासनं तथैकघटवाचकस्यापि घटशब्दस्य बहुवचनान्तत्वानुशासनं भवेत् , अवच्छेद कविनिर्मोकेऽनुशासनाभावे चैकत्रैकत्वप्रतिपादकैकवचनप्रयोगस्यैव स्वरसतः प्राप्तत्वाद् बहुवचनप्रापकयुक्त्यभावान्न घटा इति प्रयोगापत्तिः, अग्-दारादिशब्दानां नियतवचनानुशासनवलादेकत्वेऽपि बहुवचनस्यैव प्राप्तेनैकवचनापत्तिः, एकस्मिन् मनुष्ये पर्यायार्थतो बहुत्वस्य सद्भावेऽपि तवच्छेदकावयोधकवचनसंनिवेशाभावादनुशासनाभाशच्च न मनुष्यो गच्छन्तीति प्रयोगः। ननु भवतु एकत्र घटे घटा इति प्रयोगस्यासाधुत्वं परं तत्र पर्यायार्थिकनयादेशाद् बहुत्वस्य भावेन घटविशेष्यकबहुत्वप्रकारकज्ञानस्य विषयावाधतः प्रामाण्यं स्यादित्यत आह-साधुत्भ्रान्त्येति-पत्र प्रामाजिकानां साधुत्वाभावनिश्चयस्तद्वाक्यं प्रामाणिकैर्न प्रयुज्यते, प्रयुज्यमानमपि वा वाक्यमलाधुत्वग्रहप्रयुक्तानाप्सोक्तत्वज्ञानविषयीकृतं न स्वविषयीभूतेऽर्थे यथार्थज्ञानमाधातुमलम् , यत्र पुनः साधुत्वज्ञानं तत् प्रमात्मकमप्रमात्मकं वा भवतु तत्सहकृताद् वाक्याच्छाब्दवोधो जायत एव, प्रकृते साधुत्वभ्रान्त्या तत्सहकृताद् वाक्याजायमाने शाने विषया