________________
प्रमोदाविवृतिसंवलितं
and
द्रव्य-पर्यायप्रधान भावनाप्रधानगुणभूतेऽपि वस्तुनि सत्त्वघटत्वादिप्रतिपत्तेः, तदिदमुक्तम्-"अर्पितानर्पितसिद्धः" भावाद् विप्रकृष्टतेत्येवं सन्निकर्ष-विप्रकर्षादिवशादित्यर्थः, आदिपदान प्रकरणादेः परिग्रहः । गवाक्षयोपशमं द्रव्यपर्यायाधभिलषितप्रतिनियतधर्मविषयकज्ञानावरणीयकर्मक्षयोपशमानतिक्रमेण । द्रव्य-पायप्रधानभावन प्राधान्येन द्रव्यविषयकशानावरणीयकर्मक्षयोपशमे सति द्रव्यप्रधानभावेन, प्राधान्येन पर्यायविषयकज्ञानावरणीयकर्मक्षयोपशमे सति पर्यायप्रधानभावेन, अस्य 'सत्वघटत्वादिप्रतिपत्तः' इत्यत्रान्वयः । अप्रधानगुणभूतेऽपि वस्तुनीति-यत्र च धर्मद्वयमध्ये एकस्य गुणभावस्तवापरस्य प्राधान्यम्, प्राधान्य-गौणयोरन्योन्यापेक्षया व्यवस्थितेः, वस्तुनि तु सर्वेऽपि धर्मा वस्तुस्थित्या समकक्षा पवेति न तत्रैकस्य गुणभावोऽपरस्य प्रधानभाव इत्यतस्तथाभूतधर्मात्मकवस्त्वप्यप्रधानगुणभूतमेवेति तत्रेत्यर्थः । उक्तार्थ तत्त्वार्थसम्मतिं दर्शयति-तदिद. मुक्तमिति । अर्पितानर्पितसिद्धेरिति-एतच्च सूत्रं वृत्ती व्याख्यातम् , यथा-"अनेकधर्मा धर्मी, तत्र प्रयोजनक्शात् कदाचित् कश्चिद्धर्मों वचनेनार्यते विवक्ष्यते, सन्नपि च कश्चिन्न विवक्ष्यते प्रयोजनाभावात् , न पुनः स धर्मी विवक्षितधर्ममात्र एव, इत्यतः सत्पर्यायधिवक्षायां सदुत्पादादि, स्थित्यंशविवक्षायां नित्यम् , असदप्युत्पादाद्यनित्यं च, सत्त्वासत्त्वविशिष्टग्रहणात् सर्वदा वस्तुनः" इत्यादि, अनेन व्याख्यानेनेत्थमर्थाध्यवसितिः-यद्धर्मविवक्षा स धर्मोऽपितः, तेनार्पितेनाऽनर्पितस्याविवक्षितस्य सिद्धिः, यस्य धर्मस्य विवक्षा तस्य साक्षादुपात्तत्वात् साक्षादेव नद्रग्रहणमिति तस्य प्रधानभावेन सिद्धिः, स च धर्मो नानर्पितधर्मविकलः सम्भवतीति अनपितधर्मविशिष्ट एवार्पितधर्म इति तत्सिद्धिर्गुणभावेनानर्पितमपि गृह्णात्येवेत्यनेकान्तवस्तुसिद्धिरित्युकसूत्रतात्पर्यम् । एतद्ग्रन्थकृद्विरचितस्त्रिसूत्र्यालोकः सम्भाव्यते, परमिदानी स नास्माकं दृष्टपथमवतरति, तत्र चानेकान्ततत्त्वव्यवस्थितिरावेदिताः तदवगतये