________________
नयरहस्यप्रकरणम् ।
२५
'देवदत्तो गुरवः' । नन्वेवं पर्यायनयोद्भूतत्वप्रयुक्तविवक्षयैकत्रापि घंटे 'टा:' इति प्रयोगापत्तिः, द्रव्यनयोद्भूतत्वप्रयुक्तैकत्वविवक्षया च 'आपो दाराः' इत्यादावप्येकवचनापत्तिः, उभयविवक्षया च 'मनुष्यो गच्छन्ति' इत्यादिप्रयोगापत्तिः । एकत्वधर्मितावच्छेदक कबहुत्वप्रकारकप्रत्यये इच्छाया हेतुत्वेsपि 'एकत्र दूधम्' इति न्यायेनैकत्व हुत्वaratier | एतादृशशब्दासाधुत्ता आपत्तय इति चेत्, तथापि साधुत्वभ्रान्त्या जायमानेदृशरेकत्व बहुत्वयोक्तदिशा सम्भवे देवदत्तो गुरव इतिवन्मनुष्यो गच्छन्तीति प्रयोगः प्रसज्येतेति विवक्षयैकवचनान्तादिप्रयोगोपपादनं स्याद्वादिनो बहुलोकव्यवहारविरुद्धशब्दव्यवहारापादकं स्यादि त्याशङ्कते - नन्वेवमिति । ननु मनुष्यो गच्छन्तीति प्रयोगापत्तिर्न सम्भवति तत्रैकत्वविशिष्टे मनुष्ये गमनानुकूलवर्तमानकालीन कृतिमत्त्व-बहुत्वयोवधस्यैवाभ्युपगमनीयतया तत्रैकत्वस्य यहुत्वविरुद्धस्य धर्मितावच्छेदकतया भानस्यावश्यकत्वेन तज्ज्ञानस्य स्वविरोधिधर्मतावच्छेदकस्वप्रकारज्ञानरूपतयाऽऽहार्यत्वेन प्रत्यक्षस्यैवाहार्यस्येच्छाजन्यतया सम्भवेन शाब्दबोधस्याहार्य स्थानभ्युपगमादित्यत आहएकत्वेति । एकत्रेति-एकत्वविशिष्टमनुष्ये गमनकर्तृत्व-बहुत्वयोर्भानमित्येव नाभ्युपेयते येनाहार्थत्वाच्छाब्दबोधस्याहार्यस्थानभ्युपगमान्म grat गच्छन्तीति प्रयोगापत्तिर्न भवेत्, किन्तु मनुष्यत्वविशिष्टे धर्मिणि सिविभक्त्यर्थस्यैकत्वस्याख्यात बहुवचनार्थस्य वहुत्वस्यैकत्र जयमिति न्यायेन भानमित्येवाभ्युपेयते, तथाविधस्य शाब्दबोधस्यानाहार्यस्य सम्भवेन तत्फलकोक्तप्रयोगापतेः सम्भवादित्यर्थः । अत्र प्राञ्जलानां समाधानमुपन्यस्य तिरस्करोति - एतादृशेति-घटा इत्यादीत्यर्थः । तथापि शब्दासाधुत्वेऽपि । ईदृशज्ञानेति-घटव्यक्तिविशेष्यकबहुत्वप्रकारकज्ञान-जलादिविशेष्यकैकत्वप्रकारकज्ञान-मनुष्यविशेष्यकै