________________
२४
प्रमोदाविवृतिसंवलितं
वचनम् , कदाचिच 'गुरवः' इति बहुवचनम्? उच्यते-द्रव्यपर्याययोर्यथाक्रममुताऽनुद्भूतत्वविवक्षणाच्छाब्दन्यायानुसरणात् । यदा तूभयोरप्युद्भूतत्वं विवक्ष्यते, तदा भवतु पर्यायात्मना बहुत्वमिति गुरव इति बहुवचनम् ! शाब्दबोधे विवक्षाविशेषलक्षणतात्पर्यज्ञानस्य कारणत्वेन विवक्षाविशेषापेक्षणस्य शाब्दमर्यादायामावश्यकत्वादित्याशयेनोत्तरयति-उच्यत इति । यथाक्रममिति-गुरुगतैकबोधने द्रव्यस्योद्भूतत्वविवक्षणात् पर्यायस्यानुभूतत्वविवक्षणात् , गुरुगतबहुत्वबोधने पर्यायस्योद्भूतत्वविवक्षणाद् द्रव्यस्यानुद्भूतत्वविवक्षणादित्यर्थः।।
शाब्दन्यायानुसरणादिति-प्रकृत्यर्थगतैकत्वविवक्षायामेकत्वयोधकमेकवचनं प्रकृत्यर्थगतवहुत्वविवक्षायां बहुत्ववोधकं बहुवचनमित्यर्थविवक्षानुसारेण शब्दप्रयोगो भवतीति शाब्दन्यायस्तदनुसरणादित्यर्थः । यदि विवक्षानुरोध्येबैकवचन-बहुवचनादिकं तदा देवदत्तात्मकगुरुव्यक्तद्रव्योद्भूतत्वविवक्षाप्रयुक्तैकत्वविवक्षायाः पर्यायो
द्भूतत्वविवक्षाप्रयुक्तबहुत्वविवक्षायाञ्च भावे एकत्वबोधनायकवचनं बहुत्ववोधनाय च बहुवचनमपि प्रयोक्तव्यमिति चेत् , एकस्मात् पदादेकदैकविभक्तिः, तदवरुद्धे न द्वितीयविभक्तिसम्भवः, देवदत्तरूपगुर्वात्मकार्थस्तु देवदत्तशब्देनाप्यच्यते तत्समानाधिकरणगुरुशब्देनाप्युच्यत इति देवदत्तपदोत्तरप्रयुज्यमानैकवचनविभक्त्यैकत्वं गुरुपदोत्तरप्रयुज्यमानवहुवचनविभक्त्या बहुत्वमित्येवमेकत्व-बहुत्यो. भयबोधो विवक्षावैचित्र्यनिबन्धनो न स्याद्वादिनामनुद्धोप्य इत्याशयेनाऽऽह-यदा विति। उभयोः, द्रव्य पर्याययोः अनन्तधर्मात्मके वस्तुनि द्रव्यात्मनैकत्वस्य पर्यायात्मना बहुत्वस्य सम्भवे एकतया लोकव्यव. ह्रियमाणेऽपि घटादौ द्रव्योद्भूतत्वप्रयुक्तैकत्वविवक्षवैकवचनप्रयोगस्येव पर्यायोद्भूतत्वप्रयुक्तबहुत्वविवक्षया बहुवचनप्रयोगोऽपि स्यात् , एवं नियतबहुवचनान्ताऽग्दाराऽऽदिपदानामपि प्रकृत्यर्थगतैकत्वविवक्षयैकवचनान्तप्रयोगापत्तिः स्यात् , तथैकमनुष्यब्यक्ते.