________________
नयरहस्यप्रकरणम् ।
रमणीयम् , भेदस्यास्वाभाविकत्वे संख्यादीनां निरालम्बनत्वाऽऽपानात् । कथं नोकत्रैव कदाचिद् 'गुरुः इत्येकरावादीनां घशरावाद्या विभिन्नाः संज्ञा इति संज्ञाभेदः मृत्त्वजात्यादिमत्त्वं मृदो लक्षणम् , कम्युग्रीवादिमत्वं घटस्य लक्षणम् . शरावस्य विलक्षणसंस्थानवत्त्वमित्येवं लक्षणभेदः, एवं मृदः कार्यमन्यद्, अन्यच्च घटादेलाहरणादिकमिति कार्यभेदः, इत्युपदर्शितदिशा संख्या-संज्ञा-लक्षण-कार्यभेदात् पुनद्रव्य-पर्याययोरस्वाभाविक
औषधिको भेद इत्यर्थः । यदि द्रव्य-पर्याययो)दो न वस्तुतः समस्ति तथा सति पर्यायो द्रव्यस्वरूपसन्निविष्ट एवेति मृदो यदा न द्वित्वादिसङ्ख्यायोगस्तदा घटादेरपि तदतिरिक्तस्याभावान्न द्वित्वादिसत्यायोग इति न सङ्ख्याभेदो व्यवतिष्टते, एवं व्यभिन्नस्य पर्यायस्याभावात् संज्ञामेदोऽपि कम्य ? एवं द्रव्य पर्याययोरेक्ये द्रव्यावृत्तिलक्षणं कथं पर्यायस्य स्यादिति लक्षणभेदोऽपि दुरुपपादः, गावं यदेव मृत् तदेव यदि घटादि तदा मृदद्रव्यकाभिन्न कार्य कथं नाम वटादेर्भवेदिति सङ्ख्यादिभेदादिति वनुमशक्यमित्याहभेदस्यति । ननु मेदाभेदावुभावपि यदि वास्तविकावेवावच्छेदकों देनैकत्र तिष्ठतस्तर्हि अभेदनिवन्धनमेकत्वं भेदनिवन्धनं वहुत्वमप्येकत्र वास्तविकमेव वाच्यम् , तदर्थमुपादायकवचनं बहुवचनं च, न तु बौद्धं बहुत्वमेकन्वं वा, तथा चैकत्रावच्छेदकभेदानुपलक्षणे पकत्वस्य वस्तुभूतस्यानुभवारूढत्वेऽपि बहुत्वस्य वस्तुभूतस्यानुभवानारोहात् कथमेकवचन-बहुवचनयोर्वस्तुभूतस्वार्थकयोरेकत्राथें प्रयोग इत्यध्यागयित्पुरुषविशेषादिकमुद्दिश्याऽयं गुरुरिति इमे गुरव इति कादाचित्कायोग उपपादनीयो वस्तुभूतभेदाभेदाद्यभ्युपगन्तुभिरित्याशयेन पृच्छति-कथमिति । एकस्या अपि देवदत्ताद्यात्मक गुरुव्यक्ते व्यस्योद्भूतत्वेन विवक्षणे द्रव्यात्मनैकत्वमिति गुरु. ग्न्येिकवचनम . तत्र सतामपि पर्यायाणामनुद्भूततयैव विवक्षणान्न तत्प्रयुक्तबहुत्ववोधकं वहुवचनम् , तस्या एव व्यक्तः पर्याया णामुद्भूततया विवक्षणे सतोऽपि द्रव्यस्यानुद्भूततयैव विवक्षणे