________________
प्रमोदाविवृतिसंवलितं
श्रसमावेश एव, अनुभवबाधात् । न च सामान्यतोऽसआवेशव्याप्तिकल्पनादनुभवभ्रान्तत्वम् प्रतियोग्यादि
૨૨
गर्भतया विशिष्यैव भेदाभेदाचसमावेशव्यातिकल्पनादिति तु तत्त्वम् । द्रव्य-पर्याययोर्वास्तवोऽभेद एव संख्यासंज्ञा - लक्षण -कार्यभेदात् तु अस्वाभाविको भेद इनि तु न
अनुभवाधादिति वस्तुनो विशेषात्मनाऽप्यनुभवो भवति सामा स्यात्मनाऽपि विशेषात्मनानुभवाद् मेदस्तत्र पदं दधाति, सामान्यातमनाऽनुभवादमेदस्तत्रावतिष्ठते, यदि च भेदाभेदों तत्र न स्यातां तयोरनुभव एव तत्र न भवेदिति भिन्नाभिन्नतयाऽनुभवाद् भेदा मेदस्वभावकं वस्त्वभ्युपेयमित्याशयः । ननु भेदाभेदयोर्विरुद्धयोरेक
:
समावेश एवेति व्याप्तेरेकत्र तयोरनुभवो भ्रान्त एवेति न श्रान्तानुभवात तयोरेकत्र स्थितिर्युक्तेत्याशङ्कय प्रतिक्षिपति- -- वेति । घटभिन्न पढे पदाभेदस्य सत्त्वेन भेदाभेदयोः सामान्यतो न विरोधः, नापि घटभेद घटाभेदयोरपि सः, एतदटत्वेन तद्धत्वेन भिन्नयोरपि तद्ध तद्वयोर्घटत्वेनाभेदस्यापि भावात् एवं मूलावच्छेदेन कपिसंयोगिभिन्नस्य शाखावच्छेदेन कपिसंयोग्यभिन्नस्यैकस्यैव वृक्षस्य भावादिति यद्रषेण यदवच्छेदेन यद्विनो यः स तद्रूपेण तदवच्छेदेन तदभिन्नो न भवतीति विशिष्यैव भेदाभेदयोरसमावेआस्य वाच्यत्वेन तथाऽसमावेशव्याप्तेर्भेदाभेदयोरेकत्र समावेशेऽपि सम्भवादिति नैकत्र भेदाभेदाद्यनुभवस्य भ्रान्तत्वमित्याह - प्रतियांग्या दिगर्भतयेति- आदिपदादवच्छेदकाद्युपग्रहः । ये त्वभेदस्य वास्तवत्वं भेदस्या पारमार्थिकत्वं द्रव्य-पर्याययोरभ्युपगच्छन्ति तन्मतमुपन्यस्य प्रतिक्षिपति - द्रव्य-ययोरिति मृव्यमेव घटादिरूपेण परिणतमिति घटशरावादिलक्षणपर्यायो मृद्रव्यमेवेति तयोर्वस्तुतोऽभेद एवे त्यर्थः । सङ्घयेति - मृद्रव्यमेकमेव व्यवहियत इति तत्रैकत्वसङ्ख्या, घटशरावादयो द्वि-त्रि-चनुरादिगणनाव्यवहारमनुभवन्तीति तत्र द्वित्वादयः सङ्ख्या इति सङ्ख्यामेदः, मृव्यस्य मृदिति संज्ञा, घटश