________________
नयरहस्यप्रकरणम्।
यद्यपि जास्वन्तरत्वं न प्रत्येककार्याकारित्वेन नियतं भेदाभेदेन भेदाभेदव्यवहारात् , तथापि विभिन्नधर्मयोरभिव्याप्य समावेश एवोक्तनिदर्शनम् , अन्यत्रोक्तं - सिंहनिदर्शनं तु समावेशमात्र एव, तत्र नृत्व-सिंहत्वयोरन्यान्यभागावच्छेदेनैव समावेशात् । न च भेदाऽभेदाझाडिमे स्निग्धोष्णत्वयोरेवं भेदाभेदयोरप्येकत्र व्याप्त्या समावेशः, समाविष्टयोश्च तयोः प्रामाणिकत्वमिति स्याद्वाद्यभ्युपगमस्य निर्दुतैवेत्याह- यद्यपीति । कुतो न निघतमित्यपेक्षायामाह-भेदाभेदेनेति, भेदाभेदात्मकवस्तुनेत्यर्थः, वस्तुनो भेदात्मकत्वेन भेदव्यवहारः, अमेझत्मकत्वेनाभेदव्यवहारः, यत एव चैकस्माद् वस्तुनो भेदव्यवहारोऽलेदव्यवहारश्योपजायते तत एव चोभयात्मकत्वं तस्य व्यवस्थाप्यते, नथा च प्रत्येकं भेदस्य भेदव्यवहृतिलक्षणं कार्य तथाऽभेदस्याभेदव्यवहृतिलक्षणं कार्यमुभयात्मनो भवतीति जात्यन्तरत्वेऽपि प्रत्येककार्यकारित्वं त स्याद्वादिनोऽनिष्टम् , तथात्वेऽपि च प्रत्येकपक्षदोषो न भवत्येया, जात्यन्तरे भेदपक्षदोषस्याभेदात्मकत्वेनाभेदपक्षदोषस्य भेदात्मकत्वेन लमाहितत्वादित्यभिसन्धिः। उक्तनिदर्शनं दाडिमादिनिदर्शनम् । 'अन्यत्रोक्तम्' इत्युत्तरेण सम्बन्धः, तथा चान्यत्रोक्तं नृसिंहनिदर्शन त्वित्येवमन्वयः, ग्रन्धान्तरे नृसिंहदृष्टान्तेनानेकान्तासकत्वं भेदाभेदादीनामेकत्र समावेशोपपादनेन व्यवस्थापितम् , नत्र यद्यपि नृसिंहो नरात् सिंहाच्च भिन्न एव द्रव्यान्तरस्वरूपः, तथापि नरत्वं सिंहत्वं च यथावच्छेदकभेदेनैकत्र तत्र वर्तते तथा भेदाभेदाद्यात्मके वस्तुनि भेदाभेदादिकसपीत्येतावन्मात्रेण नृसिंहस्य दृष्टान्तत्यमित्यर्थः। यथा च भेदाभेदादेरभिव्याप्त्यैकत्र समावेशो न तथा नृसिंहे नरत्व-सिंहत्वयोर्विभागावच्छेदेनैव तयोः समावेशादित्याह-तत्रेति-नृसिंहे इत्यर्थः, तदुक्तम्
"भागे सिंहो नरो भागे योऽशो भागद्वयात्मकः। तममानं विभागेन नरसिंह प्रचक्षते" ॥२॥ इति ।