________________
प्रमोदाविवृतिसंवलितं
-
-
ज्ञानप्रामाण्यापत्तिरिति चेत्, अत्र वदन्ति-नयविवक्षायां यद्धर्मप्रकारेणैकत्व-बहुत्वविषयत्वम्,तजन्यशाब्दबोधेऽपि तद्धर्मप्रकारेणैवेति नोक्तदोषः। घट एव रूपादय इति कत्वबहुत्वप्रकारकज्ञानेत्यर्थः । नन्वेवम्' इत्यादिशङ्काप्रतिविधानमुपदर्शयति-अन्न इदन्नीत्यादिना । अत्र उक्ताऽऽशङ्कायाम् । वदन्ति स्याद्वाद निष्णाता अभिदधति । नयविवक्षायां द्रव्यार्थिक-पर्यायाथिकनयानुरो. घिद्रव्योद्भुतत्व-पर्यायोदभूतत्वप्रयुक्ततद्धटात्मकन्यक्तिगततद्धटत्वावच्छेद्यैकत्व-तत्तदनेकपर्यायात्मकत्वावच्छेद्यबहुत्वविवक्षायाम् । यद्धर्मप्रकारेणैकत्वबहु-बविषयत्वं तद्धटत्वप्रकारेणैकत्वविषयत्वं तत्पर्यायत्वप्रकारेण बहुत्वविषयत्वम् । तजन्यशाब्दबोधेऽपि तथाविधविवक्षाजन्यशाब्दबोधेऽपि । तदर्यप्रकारेणव तखटत्वप्रकारेणैवैकत्वविषयत्वं तत्पर्यायत्वप्रकारेणैव बहुत्वविययत्वं वा । इति एवमभ्युपगमे सति । नोक्तदोषः, एकत्र घटे घटा इति प्रयोगापत्तिः, अप-दाराऽऽदिशब्दानामेकवचनान्तप्रयोगापत्तिः, मनुष्यो गच्छन्तीति प्रयोगापत्तिश्च न भवति । यथा चोक्तदोषो न सम्भवति तथाऽग्रे व्यक्तीकरिष्यति, पूर्व द्रव्यार्थिकविवक्षया कीदृशः प्रयोगः, कीदृशश्च शाब्दबोधः, पर्यायार्थिकविवक्षया कीदृशः प्रयोगः कीदृशश्च शाब्दबोध इत्येव तावद् दर्शयतिघट एवेति-यत्र कुत्रापि वाक्ये घटशब्दो यः प्रयुज्यते स द्रव्यार्थादेशाद् घटात्मकद्रव्ये प्रयुज्यते, द्रव्यनये रूपादयः पर्याया घट एव न तु तद्भिन्ना इति तदनुरोधिविवक्षाऽपि रूपादिपर्यायाणां घटात्मतासुररीकृत्यैव प्रवर्तत इति तया रूपादीनां घटस्वभाव एव प्रविष्टत्वाद् द्रव्यात्मतयैव घटस्य शाब्दबोधात् , पर्यायार्थादेशाद् घटशब्दस्तु रूपादिसमुदाय एवं प्रयुज्यते रूपादिपर्यायाणामेव घट: शब्दाभिधेयत्वादिति घटो रूपादय एवेति पर्यायार्थविवक्षया घटस्य रूपादिस्वभाव एव प्रविष्टत्वाद् रूपादिस्वभावतयैव घटस्य शाब्दबोधात् , तथा व द्रव्यात्मतया घटव्यक्तिबोधे तद्रूपेण घटस्यैकत्वादेकत्वेन तस्य वोधः, पर्यायतया तद्वोधे च पर्यायरूपेण वहुत्वाद