________________
१६
प्रमोदाविवृतिसंवलितं
मैषम्-सतामेवैकत्वादीनां वुद्धिविशेषेणाभिव्यक्तेः, अ. न्यथा तद्विषयत्वायोगादेकत्र प्रमीयमाणत्वेन चाविरोधात्, तद्वदेव भेदादीनामविरोध इति भावनीयम् । एकैकपक्षोक्तदोषापत्तिस्तु जात्यन्तरत्वाभ्युपगमान्निरसनीया । दृष्टा हि वैकल्यपरिहारेण तत्प्रयुक्तायाः परस्परावसायो यथा न विप्रतिपत्तिविषयस्तथा भेदाभेदादीनामप्यपेक्षामेदेन न विरोध इति तदध्यवसायरूपनयस्यापि न विप्रतिपत्तित्वमिति समाधत्ते-मैवमिति । अन्यथा एकत्वादीनां सत्त्वाभावे । तद्विषयत्वायोगाद् वुद्धिविशेषविषयत्वासम्भवात् । ननु विरुद्धत्वादेव न सङ्ख्यारूपाणामेकत्वादीनामेकत्रावभाससम्भव इत्यगत्या बुद्धिविशेषविषयत्वादिरूपस्यैवैकत्वादेरध्यवसायोऽङ्गीकरणीय इत्यत आह-एकत्रेति, ययो कत्र प्रमीयमाणत्वं तयोरेव विरोधः, ययोश्चैकत्र प्रमीयमाणत्वं तयोर्न विरोध इत्येवं विरोधेऽविरोधे च नियमोऽभ्युपेयः, एकत्वद्वित्वादिकश्चैकत्र निमित्तभेदेन प्रमीयत एवेति प्रमीयमाणत्वेनाविरोधात् सङ्ख्यारूपाणामेवैकत्वादीनामुक्ताध्यवसायोऽभ्युपेय इति तदविप्रतिपत्तित्ववन्नयाविप्रतिप्रत्तित्त्वमप्यङ्गीकरणीयमित्याशयः। ननु वस्तुनी विशेषात्मतया भिन्नतयाऽभ्युपगमेऽभेदवादिदत्तदोषस्य, सामान्यात्मतयाऽभिन्नतयाऽभ्युपगमे भेदवादिदत्तदोपस्य जागरूकत्वाद् भेदामेदाद्यनेकान्तात्मकं वस्त्वेव न सम्भवतीति कथं वस्त्वंशभेदाद्यध्यवसायितया नयस्य लक्षितत्वसम्भव इत्याह-एककेति । अथवा एकत्र प्रमीयमाणत्वेन चाविरोधाद् इति यदुक्तं तत्रैवं कश्चिदाशङ्केत-'प्रत्येक यो भवेद दोषो द्वयोर्भावे कथं न सः।” इति वचनात् प्रत्येकपक्षदोषस्य मेदाभेदोभयपक्षेऽपि सदभावाद् दोषकलितस्य भेदाभेदोभयस्यैकत्र यज्ज्ञानं तद्विपर्यय एव न प्रमेत्येकत्र प्रमीयमाणत्वासिद्धयाऽविरोधस्यासम्भव इत्यत आह-एकैकेति, एकैकपक्षदोषस्यैकान्तोभयपक्षेऽपि सम्भवान्नैकान्तोभयात्मकत्वं किन्तु कथञ्चिदुभयात्मकत्वेन जात्यन्तरत्वमेव, तत्र च न प्रत्येकपक्षदोषः । जात्यन्तरे प्रत्येकपक्षदोषनिवृत्तिं दृष्टान्तावष्टम्भेन भावयति-दृष्टेति, एतेन नादृष्टचरीय