________________
प्रमोदाविवृतिसंवलितं
पाणामेतेषां विप्रतिपत्तित्वमप्याशङ्कनीयम् , सत्त्व-जीवाजीवात्मकत्व-द्रव्यगुणपर्यायात्मकत्व-चतुदर्शनविषयत्वपश्चास्तिकायावरुद्धत्व-पद्रव्यक्रोडीकृतत्वधर्मेरेकत्व-द्वित्व नित्य-चतुष्ट पश्चत्व-षत्वाध्यवमायानारिव १, पो. यविशुद्धिवशात् पृथगर्थग्राहिणां मतिज्ञानादीनामिव २, एकनार्थे प्रतिनियतविषयविभागशालिनां प्रत्यक्षादीना भिव ३ वा नैगमाद्यध्यवसायानां विरुद्ध नानाधर्मग्राहित्वे ऽप्यविप्रतिपत्तिरूपत्वादिति सम्प्रदायः । धस्यैवाभावादित्याह-नैकस्मिन्नर्थ इति, नत्रः 'आशङ्कनीयम्' इत्यनेनान्वयः । एतेषां नयानाम् , 'नेगमादयो नया विप्रतिपतिरूपा एकस्मिनर्थे विरुद्धनानाधर्मग्राहित्वाद" इति शङ्कितुरनुमानप्रयोगोऽभिप्रेतः, हेतौ 'विरुद्ध' इत्यनेन सर्वथा विरुद्धत्वं यद्यभिमतं तदाऽसिद्धमेव सत्त्वासत्त्वादीनां सर्वथा विरोधस्यानभ्युपगमेनैकस्मिन्नर्थे सर्वथाविरुद्धनानाधर्मग्राहित्वलक्षणहेतोः पक्षीमूते नयेऽभावात् , कथञ्चिद् विरुद्धत्वं यद्यभिप्रेतं तदा कथञ्चिदित्युक्तिबलादविरुद्धत्वमप्यागतम्, तथा च कथञ्चिद्विरुद्धनानाधर्मग्राहित्वमेकत्वद्वित्वाघध्यवसायेषु वर्तते,नच तेषां विप्रतिपत्तित्वमिति व्यभिचरितत्वमेवोक्तहेतोःस्यात्, 'नैगमादयो नया विप्रतिपत्तिरूपा अंशग्राहित्वाद्' इति शङ्कितुरनुमानप्रयोगो यद्यभिमतस्तदा क्षायोपशमिकानां मतिज्ञानादीनामशग्राहित्वेऽपि विप्रतिपत्तिरूपत्वाभावादनैकान्तिकोऽयं हेतुः, एक्मस्मदादिप्रत्यक्षादिकमपि न सम्पूर्णार्थावबोधकमिति तथाविधप्रत्यक्षादेरपि प्रमितिवैलक्षण्यं समस्तीति तेन हेतुना विप्रतिपत्तित्वसा। धनेऽविप्रतिपत्तिरूपे प्रत्यक्षादौ व्यभिचारः स्यादिन्याशयेनाह-सत्त्वेतिसत्त्वेन सर्वस्यैकत्वाध्यवसायः, जीवाजीवात्मकत्वेन द्वित्वाध्यवसायः, द्रव्यगुणपर्यायात्मकत्वेन त्रित्वाध्यवसायः, चतुर्दर्शनविश्यत्वेन चतु. ट्वाध्यवसायः, पञ्चास्तिकायावरुद्धत्वेन पञ्चत्वाध्यवसायः, पद्रव्यकोडोकृतत्वेन षत्वाध्यवसायः, इत्येवं दर्शितानामाध्यवसायानां