________________
नयरहस्यप्रकरणम् ।
·
१३
भयवैलक्षण्यात, स्वविषयप्राधान्यरूपस्वतन्त्रतायाश्च मिथ्यात्वाप्रयोजकत्वात, गौणत्व-मुख्यत्वपोहस्वत्व-दीत्वयोरिवापेक्षिक वस्तुधर्मत्वात् । प्रपञ्चितं चेदमन्यत्रेति नेह प्रतन्यते । अत एव नैकस्मिन्नर्थे नानाध्यवसाय क्षणा इति भवत्येतेषामधिगमोपायत्वमिति समाधतेनेति । नयानाम् । उभवेति-तन्त्रान्तरीयस्वतन्त्रोभयेत्यर्थः । तत्रान्तरीयत्वेsसत एकान्तस्य ग्राहित्वेन मिथ्यात्वं स्यादपि, स्वतन्त्रता यदि स्वविषयीभूतांशभिन्नप्रतिपन्थ्यंशप्रक्षेपिता नयेषु विवक्षिता स्यात्. स्यात् तदा मिथ्यात्वम्, यदि तु स्वविषयप्राधान्यरूपैव स्वतन्त्रताऽभिमता नदा स्वविषयेतरांशे गजनिमीलिकामवलम्बमानाना प्राधान्यतः स्वविषयमवगाहमानानामीदृशी स्वतन्त्रता मिथ्यात्वमन्तरेणैव पादेति न स्वतन्त्रतातो मिथ्यात्वापत्तिरित्याह-स्वविषयेति । य एव वस्त्वंश एकेन नयेव प्रधानतया विपयीक्रियते स एवान्येन नयेन गौणतया विपयीक्रियत इत्यापेक्षिकं प्राधान्यं गौणत्वञ्च वस्तुधर्म एव यथा एकैवानामिका कनिष्ठिकापेक्षा दीर्घा मध्यमापेक्षया हस्वेति आपेक्षिके हस्वत्वदीर्घत्वे एकस्मिन् वस्तुनि सम्भवतः, तथा प्राधान्यगौणत्वे अपीत्याह- गौणत्वेति यथा एक एव देवदत्तः पितृपुत्रादिव्यपदेशभाक्, तत्र स्वपुत्रापेक्षया पितृत्वं स्वपिपेक्षया पुत्रत्वं स्वमातुलापेक्षया भागिनेयत्वं स्वभागिनेयापेक्षया मातुलत्वमित्येवमापेक्षिकमनेकधर्मसंघट्टनमेकत्र तथा नयभेदापेक्षया विभिन्ननिमित्तसमाश्रयणेन सत्त्वासत्त्वाद्यप्येकत्रावि रुद्धम् । यथा च स्याद्वादे न कस्यापि विरोधस्तथा तत्त्वार्थवृत्त्यादावुपपादितमेवेत्याशयेनाह - प्रपञ्चितमिति । अत एव निमित्तभेदापेक्षयैकस्मिन् नानाधर्माणां विरुद्धानामपि समावेशस्य सम्भवादेव, अस्य 'नाशङ्कनीयम्' इत्यनेन सम्बन्धः । यद्यपि संग्रहनयः सर्वस्य सत्त्वेनक्यमवगाहते व्यवहारञ्चानेकतामित्येकत्वानेकत्वाद्यध्यवसायरूपाणां संग्रह व्यवहारादिनयानां विरुद्धप्रतिपत्तिरूपतया विप्रतिपत्तित्वमामुखेऽवभासते तथाऽप्यपेक्षाभेदे नैकत्वाने कत्वादेरेकत्र सम्भवेन विरो