________________
१२
.
प्रमोदाविवृतिसंवलितं
wwwwwwwww
यद्येवं नयानामध्यवसायरूपता कथं तर्हि "उवएसो सो णओ णाम" त्ति ?, [आव०नि०] सत्यम्-नयजन्योपदेशे नयपदोपचारात् । तथाप्येते तन्त्रान्तरीयाः स्वतत्रा वा चोदकपक्षग्राहिणो मतिभेदेन विप्रधाविताः, उभयथापि मिथ्यात्वमिति चेत्, न-प्रमाणापेक्षत्वेनैतेषामु. वस्थितौ च । लक्षणान्येव नयलक्षणान्येव ॥ ___ अध्यवसायविशेषस्यैव प्रकृतवस्त्वंशग्राहीत्यादिलक्षणेन नयत्वव्यवस्थितौ उपदेशस्य वचनरूपस्य नयतयोपवर्णनं सिद्धान्ते कथं सङ्गतमित्याक्षेपमुत्थाप्य समाधत्ते-यद्येवमिति। ननु“प्रमाणनयरधिगमः" [तत्त्वार्थ०१-६] इति सूत्रेण नयानामधिगमोपायत्वमुक्तम्, तन्न युक्तम्-अनन्तधर्मात्मकवस्त्वनवगाहिनां नयानां प्रमाणभिन्नतया मिथ्यात्वस्यैव भावेन तन्त्रान्तरीयत्वे स्वतन्त्रत्वे वा एतेषां स्याद्वादलक्षणसिद्धान्तानभिप्रेतैककधर्मप्ररूपकतया प्रतिपक्षपक्षसमर्थकानां नानन्तधर्मात्मकवस्त्वधिगमोपायत्वं प्रत्युतैकान्तवाद्यभिमतैककधर्मव्यवस्थापकत्वमेवेति तत्प्ररूपणं स्याहादिनः स्ववधाय कृत्वोत्थापनमेवेत्याशङ्कते तथाऽपीति-अध्यवसायविशेषस्य परमार्थतस्तजन्योपदेशस्योपचारतो नयत्वस्य समर्थनेऽपीत्यर्थः । एते नयाः। तन्त्रान्तरीयाःजैनराद्धान्तभिन्नराद्धान्तमान्याः। वा अथवा । स्वतन्त्राः तन्त्रान्तरमनपेक्ष्य प्राधान्येन स्वविषयीभूततत्तद्धर्मसमर्थनायादृताः। चोदकपक्षग्राहिणः-चोदकस्य प्रश्नकर्तुः पक्षस्याभिमतार्थस्य ग्राहिणः समर्थकाः । मतिमेदेन विभिन्नाभिप्रायेण । विप्रधाविताः-विभिन्नपन्थानमाश्रिताः, न तु स्याद्वादाभिधप्रमाणराजमार्गानुगमनपराः। उभयथाऽपि तन्त्रान्तरीयत्वे 'स्वतन्त्रत्वेऽपि च । मिथ्यात्वम् अप्रामाण्यम्। प्रमाणेन परस्परविरोधि• भावापन्नसत्त्वासत्त्वाद्यनन्तधर्मात्मकवस्तु व्यवस्थापनीयम् , विरोधिनां सत्त्वासत्त्वादीनामेकत्रावस्थानप्रतिपत्तिर्नापेक्षाभेदप्रयुक्तसामानाधिकरण्यसमर्थनमन्तरा, अपेक्षाभेदश्च नयभेदेनैव प्रतिपादनीय इत्यविरोधप्रतिपत्तये नया अपेक्षणीयाः प्रमाणरिति स्याद्वादिन एवैते न तन्त्रान्तरीया नापि स्वतन्त्रा इति न मिथ्याभिनिवेशल