________________
नयरहस्यप्रकरणम्।
man
वापन्ननानाधर्मेकतरमात्रप्रकारकत्वम् । साधकत्वं तथाविधप्रतिपत्तिजनकत्वम् । निर्वर्तकत्वमनिवर्तमाननिश्चितस्वाभिप्रायकत्वम् । निर्भासकत्वं शृङ्गग्राहिकया वस्त्वंशज्ञापकत्वम् । उपलम्भकत्वं प्रतिविशिष्टक्षयोपशमापेक्षसूक्ष्मार्थावगाहित्यम् । व्यजकत्वं च प्राधान्येन स्वविषयव्यवस्थापकत्वम् । एवं च पदार्थ प्रतिपादयन्नपि भाष्यकारस्तत्त्वतो लक्षणान्येव सूचितवान् । त्तिजनकत्वं प्रमाणप्रतिपन्नप्रतियोगिप्रतियोगिमद्भावापन्ननानाधर्मकत रमात्रप्रकारकज्ञानजनकत्वम् , एतच्च नयलक्षणं ज्ञानविशेषजनकराव्दादावुपचारतो नयव्यपदेश्ये समनुगतम् । अनिवर्तमानेनि-बलवत्तरविरोधिनाऽवाध्यमानो निश्चितः स्वाभिप्रायो यस्य सोऽनिवर्तमान निश्चितस्वाभिप्रायकस्तत्त्वम , एतदपि नयवाक्यस्योपचाराग्नयत्वमवलम्ब्य तद्गतं प्रतिपत्तव्यम् । शृङ्गग्राहिकयेति-यथा शृथं गृहीला मदीयेयं गौरिति विशेषतः प्रतिपादनं तथा प्रातिस्विकरूपेण वस्त्वंशज्ञापकत्वं निर्भास्कत्वमित्यर्थः । वरत्वंशज्ञापकत्वमित्यनेन वस्त्वंशमात्रज्ञापकत्वं विवक्षितं तेन प्रमाणे नातिव्याप्तिः। प्रतिविशिष्टेति-यद्यपि मत्यादिज्ञानस्य प्रत्यक्षादिप्रमाणरूपस्य प्रतिविशिष्टक्षयोपशमापेक्षमूक्ष्मार्थावगाहित्यमस्तीति तत्रातिव्याप्तिः, तथापि 'प्रतिविशिष्ट' इत्यनेन सूक्ष्मार्थस्य वस्त्वंशरूपस्यैव यादृशेन क्षयोपशमनायबोधो भवति तादृशक्षयोपशम पवाभिमत इति तादृशक्षयोपशमापेक्षसूक्ष्मार्थावगाहित्वं नय पवेति नोक्तातिव्याप्तिरिति बोध्यम् । स्वविषयव्यवस्थापकत्वनित्यत्र 'स्वविषय' इत्यनेन वस्त्वंश एवाभिमतः, तेन प्रमाणस्यानन्तधर्मात्मकयस्तुस्वरूपस्य स्वविषयस्य व्यवस्थापकत्वेऽपि न क्षतिः, प्रमाणेनानन्तधर्मात्मकवस्तु प्रतीयते, तत्र यो धर्मो यदपेक्षया समस्ति तस्य धर्मस्य तदपेक्षया प्राधान्येन व्यवस्थापकस्तद्विषयको नय एव, अत एव प्रमाणस्य नयापेक्षेति बोध्यम् । एवत्र प्रापकत्वादीनामुक्तदिशा नयमात्रगततया निर्वचनतो नयलक्षणत्वव्य