________________
प्रमोदाविवृतिसंवलितं
माणेऽतिव्याप्तिवारणाय विशेषपदम् ।। "नयाः प्रापकाः साधका निर्वतका निर्भासका उपलम्भका व्यञ्जका इत्यनर्थान्तरम्" इति भाष्यम् [तत्त्वार्थ० अ०१ सूत्र०३५] । अत्र प्रापकत्वं प्रमाणप्रतिपन्नप्रतियोगिप्रतियोगिमभाऽनन्तधर्मात्मकवस्तुग्राहिणि प्रकृतवस्त्वंशग्राहित्वस्यापि भावेन तत्रातिव्याप्तेरनभिधाने न्यूनतापत्ते वकाशः । विशेषता चाध्यवसाये प्रकृतवस्त्वंशत्वव्यापकविषयताशून्यत्वमेव, प्रमाणे च प्रकृतवस्त्वंशग्राहित्वं प्रकृतवन्तुग्राहित्वादेव, तथा च विवक्षितैकांशग्राहित्ववत् तदन्यांशग्राहित्वमपि, एवञ्च प्रकृतवस्त्वंशत्वव्यापकविषयतैव तत्र न तन्छन्यत्वमिति नातिव्याप्तिरिति हृदयम् ॥
स्वयं नयलक्षणमभिधाय उक्तवचित्र्येण लत्त्वार्थभाष्यकृदुतानि लक्षणान्तरायपि नयस्याबसेयानीत्याशयेन तत्वार्थभाष्यमुल्लिखति-जया इति । अनर्थान्तरं नयशब्दसमानार्थकाः शपकादिशब्दाः । न खलु प्रापकादिशब्दानां सर्वथैकार्थत्वमेव किन्तु कथश्चिदर्थभेदोऽपि, य एव प्रापकास्त एव साधका निर्वतकाद्याश्चेति धय॑शमुपादायकार्थकत्वं प्रकारांशमादाय तु विभिन्नार्थकत्वमित्याशयेन क्रमेण प्रापकत्वादिकं लक्षयति-अत्रेति । 'अध्यवसायविशेषः' इत्यत्र विशेषपदेनापि प्रमाणव्यावृत्तं प्रापकत्वादिकमभिमतम् , एतदभिसन्धानेनैव प्रमाणातिव्याप्तिवारणफलकतया विशेषपदं सङ्गमय्य विशेषपदोगादानेऽतिव्यानिवारणप्रकारमनुक्त्वैव नयाः प्रापका इत्यादिभाष्यमुलिख्य प्रापकत्वादिनिर्वचनं कृतवान् ग्रन्थकारःप्रमाणप्रतिपन्नेति-प्रमाणेन प्रतिपन्ना निश्चिता ये प्रतियोगिग्रतियोगिमद्भावापन्ना विरोधिविरोधिमभावापन्ना नानाधर्माः सत्त्वासत्त्व-नित्यत्वानित्यत्व-भेदाभेदादयो धर्मास्तदेकतरमात्रं सत्त्वं वाऽसत्त्वं वा नित्यत्वं वाऽनित्यत्वं वेत्येक एव धर्मः प्रकारो यत्र तद्भावः प्रमाणप्रतिपन्नप्रतियोगिप्रतियोगिमद्भावापन्ननानाधर्मकतरमात्रप्रकारकत्वम् , एवंरूपं प्रापकत्वं नयत्वेनाभिमताध्यवसायवि. शेषेष्वेव न प्रमाणेप्विति भवत्येतदपि नयलक्षणम् । तथाविधप्रतिप