________________
नयरहस्यप्रकरणम् ।
-
तरांशाप्रतिक्षेपी' इति । सप्तभङ्गात्मकशब्दप्रमाणप्रदीर्घसन्तताध्यवसायैकदेशेऽतिव्याप्तिवारणायाध्यवसायपदम् । रूपादिग्राहिणि रसायप्रतिक्षेपिण्यपायादिप्रत्यक्षप्रशास्तु तत्तद्धर्मावगाहनप्रवणा अध्ययनायैकदेशा एव नाध्यवसा. यरूपाः, तेऽपि च प्रकृतवस्त्वंशग्राहिणास्तदितरांशाप्रतिक्षपिणश्च, न च नया इति तत्रातिव्याप्तिवारणाय 'अध्यवसायविशेषः' इति विशेष्योपादानमित्याह-सप्तभङ्गात्मकेति-सतभङ्गात्मकं यच्छब्दप्रमाणं ततो यः प्रदीर्घसन्ततस्वरूपोऽध्यवसायस्तदेकदेश इत्यर्थः । यद्यपि अनन्तधर्मात्मकवस्तुग्राहि ज्ञानमेव उपाध्यवसायिस्वरूपं प्रमाणम् , तञ्च मुख्यवृत्त्या केवलज्ञानम् , नकलादेशमहिनाऽनन्तधर्मामकवस्त्वत्रभारपकं स्यात्कारलाञ्छितवाक्यजनितज्ञानश्चः तदन्यप्रत्यक्षादिज्ञान प्रतिनियततत्तद्धर्मविशिष्टर्मिग्राहकत्वान्नानन्तधत्मिकवस्तुग्राहकम् , अतो न मुख्यवृत्या प्रमाणं किन्तु तद्वति तत्प्रकारकज्ञानत्वलक्षणप्रामाण्यं व्यावहारिकमेवेति तस्य नयत्वमेव मुख्यवृत्त्येनि तत्र लक्षणगमने लक्षणसमन्वय पव नातिव्याप्तिरिति तद्वारणाय न कोऽपि प्रयास आदरणीयः, तथापि अन्यतैर्थिकानां स्याद्वादसंस्कारविकलानां यत् प्रत्यक्षादि ज्ञानमुपजायते तस्यानन्तधर्मात्मकवस्तुग्राहित्वामात्रेऽपि स्थाद्वादसंस्कारवता प्रमातॄणां प्रत्यक्षादि झानमुपजायमानं प्राधान्येन प्रतिनियतधमविषयकमपि गुणीभूततया धर्मान्तरविषयकनकि, एतावताऽप्यनन्तधर्मात्मकवस्तुविषयकत्वात् प्रामाण्यं तस्य निर्वहत्येव. तच्च रूपादिप्रत्यक्षज्ञानमवग्रहेहारूपमव्यवसायात्मकत्वान्न प्रमाणं परमपायधारणात्मकं तत् प्रमाणमेव, तदपि प्रकृतवस्त्वंशस्य रूपादेहिकं तदितरांशस्य रसादेरप्रतिक्षपकमध्यवसायस्वरूपञ्चेति तत्रातिव्याप्तिवारणाय 'अध्यवसायविशेषः' इत्यत्र विशेषपदोपादनमित्याह-रूपादिग्राहिणीति । अध्यवसायपदं च निश्चयात्मकशालपरमतोऽवग्रहेहयोरतिव्याप्त्यसंभवाद् , अपायादीत्यादिपदाद् धारणापरिग्रहः । प्रत्यक्षप्रमाणेऽतिव्याप्तिश्चानुमानादिप्रमाणेऽतिव्याप्तेरप्युपलक्षिका, तेन प्रमाणमात्रे