________________
प्रमोदाविवृतिसंवलितं
सायविशेषो नयः"। दुर्नयस्याप्यधिकृतांशाप्रतिक्षेपित्वात् तत्रातिव्याप्तिवारणाय 'प्रकृतवस्त्वंशग्राही' इति । एवं च तत्पदेन तद्भिन्नप्रतिपन्थिधर्मोपस्थितेने दोषः । प्रकृतवस्त्वंशग्राहित्वमपि दुर्नयेऽतिव्याप्तमेवेति 'तदिदिलक्षणसमन्वयः। यद्युक्तलक्षणवाक्ये 'प्रकृतवस्त्वंशन्नाही' इति विशेपणं नोपादीयेत, तदा प्रथमं किमपि नोक्तमेवेति तत्पदं कस्य परामर्शकं भवेदिति 'तदितरांशाप्रतिक्षेपी' इत्यत्राप्रतीयमानार्थक तदितर' इत्यपि नोपादेयं स्याद् , एवं च 'अंशाप्रतिक्षपी अध्यवसायविशेषो नयः' इत्येव लक्षणवाक्यं भवेत्। तथा च दुर्नयोऽपि स्वविषयीभूतमंशं न प्रतिक्षिपति अध्यवसायविशेषोऽपि भवतीति तत्रातिव्याप्तिः, तद्वारणाय प्रकृतवस्त्वंशग्राहीन्याह-दुर्नयस्यापीति । तत्र दुर्नये। नन्वेवमपि दुर्नयेऽतिव्याप्तिस्तदवस्थैव, दुनयविषयोऽप्यंशः प्रकृतवस्त्वंशः, तग्राहित्वमपि दुर्नये वर्तते, स्वविषयीभूतो योऽशस्तदप्रतिक्षेपित्वमपि वर्तत इत्यत आह-एवढेतिप्रकृतवस्त्वंशग्राहीत्युपादाने चेत्यर्थः। तत्पदेन 'तदितरांशाप्रतिक्षेपी' इत्येतद्घटकतदितरांश इत्यनेन । तद्भिन्नप्रतिपन्थिधर्मोपस्थितेः-यन्नये लक्षणं सङ्गमनीयं तन्नयविषयो यः प्रकृतवस्वंश.' इत्यनेन गृह्यते, यथा-घटः सन्नित्यत्र प्रकृतवस्त्वंशः सत्त्वम् , तदेव प्रथमोपस्थितत्वात् तच्छब्दग्राह्यम् , तद्भिन्नो यः प्रतिपन्थी तद्विरोधी धर्मोऽसत्त्व तस्योपस्थितः, तदप्रतिक्षपित्वं घटः सन्निति नये वर्तत इति लक्षणसमन्वयः। घटः सन्नेवेति दुर्नये च तादृशधर्मप्रतिक्षेपित्वमेव वर्तत इति तदितरांशाप्रतिक्षेपित्वस्याभावाद् , न दोषः-नातिव्याप्तिरित्यर्थः । 'प्रकृतवस्त्वंशग्राही अध्यवसायविशेषो नयः' इत्येतावन्मात्रे लक्षणवाक्ये विन्यस्तेऽपि दुर्नयेऽऽतिव्याप्तिस्तदवस्थवेति तदिरांशाप्रतिक्षेपी' इत्युपातमित्याह प्रकृतवस्त्वंशग्राहित्यमपीति । सप्तभङ्गयात्मकमहावाक्येन यो बोधो जायते स प्रथमभङ्गादारभ्यांशेनोत्पद्यमानश्चरमभङ्गजनितांशतः परिपूर्णो भवतीति तावदंशसमुदितरूपोऽध्यवसायः स प्रमाणात्मकः, तदं