________________
नयरहस्यप्रकरणम्।
"प्रकृतवस्त्वंशग्राही तदितरांशाप्रतिक्षेपी अध्यव. प्टसाधनम् , इदं मत्कृतिमाध्यम्' इत्याकारकं ज्ञानम् , तजनक प्रयोजनाधिकारिसम्बन्धाभिधेयानां ज्ञानम् , तदेव ज्ञानं प्रवृत्तिप्रयो. जकमपि, तद्विषयत्वं प्रयोजनादिचतुष्टये वर्तत इति तच्चतुष्टयं भवत्यनुबन्धचतुष्टयम् , नहि निष्प्रयोजनेऽसम्बद्धेऽनभिलषिताभिधे. येऽनुष्ठानागोचरेऽथ प्रवृत्तिः, नाऽप्यनधिकारिणोऽध्ययनादौ प्रवृ. त्तिरित्यनुबन्धचतुष्टयप्रतिपादनाय 'परोपकृतये' इत्याद्युत्तरार्द्धम् । अत्र परपदेन नयरहस्याभिलाष्येव विवक्षितस्तस्यैव नयरहस्यप्रतिपादकैतद्ग्रन्थतो नयरहस्यात्मकफललक्षणोपकारसम्भवादिति “परोप. कृतये' इत्यनेन नयरहस्याभिलाषी अधिकारी, नयज्ञानलक्षणं प्रयोअनं तादीकचतुर्थीतो यन्नयरहस्यग्रन्थस्य तदर्थावगमनम् , तदुक्तग्रन्थस्योक्तफलेन सह जन्य-जनकभावलक्षणसम्बन्धमन्तरेण न सम्भवतीत्युक्तसम्वन्धश्च प्रतीयते। 'नयगोचरं रहस्यम्' इत्यनेन नयरहस्यनामकग्रन्थस्यैवावेदनभिति तत एव नयलक्षणोऽभिधेयस्तेन सह ग्रन्थस्य प्रतिपाद्य-प्रतिपादकभावसम्बन्धश्च प्रतीयते । 'बमः' इत्यनेन उत्तरकालीनकर्तव्यत्वप्रकारकज्ञानानुकूलव्यापारलक्षणा प्रतिज्ञाssवेदिता भवति, सा च श्रोतृणां चित्तैकाग्रयलक्षणावधानार्था ॥
प्रतिज्ञातं नयगोचररहस्यवचनं नयनिरूपणपयवसितमेव, नय. निरूपणं चोद्देशलक्षणपरीक्षाभिर्भवेत् , तत्रोद्देशो नाममात्रेण वस्तुसंकीर्तनरूपः, प्रकृते 'नयगोचरम्' इत्यत्र नयशब्दोङ्कनमात्रत एवं निष्पन्नः, तत एव च लक्षणेनेतरभेदानुमाने उपयुक्तस्य पक्षज्ञानस्य निष्पत्तिः, परीक्षा च लक्षणेऽव्याप्त्यतिव्याप्त्यसम्भवदोषनि. रासफलिका लक्षणानन्तरं लब्धप्रसरेति नयलक्षणमितरभेदानुमितिफलकमाह-प्रकृतति, यथा-सन् घट इति ज्ञानं नयः, तद्धि प्रकृतस्य वस्तुनः सदसदाद्यनेकात्मकस्यांश एकदेशः सदात्मा तं गृह्णाति, सद्रूपांशादितरोंऽशोऽसदादिः तं न प्रतिक्षिपति तत्रौदासीन्यमेव भजते, न चेदं शब्दप्रमाणप्रदीर्घसन्तताध्यवसायस्यैकदेशस्वरूपं किन्तु पृथगध्यवसायविशेष एवेति 'प्रकृतवस्त्वंशग्राही' इत्या