________________
प्रमोदाविवृतिसंवलितं
जन्यत्वं तत्रैव श्रेयःसाधनत्वेन श्रेयोरूपे विघ्नसम्भवादिति तत्त्वाथरूपकग्रन्थसमाप्तिं प्रत्येव विघ्नध्वंसद्वारा मङ्गलस्य कारणत्वमिति नास्तिकग्रन्थसमाप्तेः कार्यतावच्छेदकानाक्रान्तत्वान्न तत्र व्यभिचारचोदनावकाश इत्याहुः ॥
'इन्द्रश्रेणिनतम्' इत्येवमुक्त्याऽपि भगवतो महावीरस्य पूजातियो ज्ञायत एव, तथापि 'ऐम्' इति सरस्वतीमन्त्रसमाराधनत एव ग्रन्थकर्तुः श्रीमतो यशोविजयमहोपाध्यायस्य कवित्ववित्त्वाद्युत्कर्षप्राप्तिरिति प्रायः स्वनिर्मितग्रन्थमात्र पवारम्भे उक्तमन्त्रकीर्तनं स्वनिमितत्वावबोधकमतोऽत्रापि तदवगतये 'ऐन्द्रश्रेणिनतम्' इत्युक्तिः । यः खलु देवेन्द्रसमूहपूज्यः स नरेन्द्रादिपूज्यः स्यादेवेति पूजातिशयलाभः । वीरमिति लोके बाह्यशत्रुजयनशीलोऽपि पराक्रमशालित्वाद् वीर इत्युच्यते, तीर्थकृत् पुनरन्तः शत्रुरागद्वेषाद्यत्यन्तोच्छेदाऽप्रतिघसामर्थ्यान्महावीर इति, तमित्यर्थ: : अनेन योगरूढेन विशेष्यसमर्पकपदेनावयवशक्त्याऽपायापगमातिशयो लभ्यते । 'तत्त्वार्थदेशिनम्' इत्यनेन " उप्पेर वा विगमेइ वा धुवेइ वा " इति वचनेन सर्ववस्तुव्यापकोत्पादव्ययध्रौव्ययुक्तत्वलक्षणसत्त्वप्रतिपादनतोऽनेकान्तात्मकत्वं द्रव्यपर्यायनयद्वयावबोध्यमबाध्यं वस्तुमात्रसमनुगतमावेद्यत इति वचनातिशयो लभ्यते । एवं समवसृतौ नरामरादीन् प्रतिदिवस हितावहमुपदिशति भगवान् सर्वभाषापरिणामिभाषयेति तादृशदेशनावचनमेव 'तत्त्वार्थदेशिनम्' इत्युक्तिसमनुगतमित्येवंदिशाऽपि वच नातिशयलाभः । तादृशवचनातिशयो न ज्ञानातिशयं विना, वाक्यरचनां प्रति वाक्यार्थज्ञानस्य कारणत्वेन विशिष्टवचनकारणतया विशिष्टज्ञानस्यावश्यकत्वादिति ज्ञानातिशयोऽर्थालभ्यते । 'नत्वा' इत्यनेन नमस्कारलक्षणं मङ्गलमावेदितम् । नमस्कारश्च स्वावधिकोत्कृष्टत्वप्रकारकज्ञानानुकूलो व्यापारः, ज्ञानं च - 'मत्त उत्कृष्टो वीरः ' इत्याकारकम् । ग्रन्थाध्ययनादौ प्रेक्षावतां प्रवृत्तये ग्रन्थादावनुबन्धचतुष्टयमवश्यं वाच्यम् ; तल्लक्षणं तु प्रवृत्तिजनकज्ञानजनकज्ञानविषयत्वं प्रवृत्तिप्रयोजकज्ञानविषयत्वं वा, प्रवृत्तिजनकम् 'इदं मदि