________________
नयरहस्यप्रकरणम्।
नया मुक्यर्थिनां काशीमरण इव समाप्न्यर्थिनां मङ्गले प्रवृत्तिर्नानुपपन्ना ! यद्यपि यत्कार्य प्रति यस्य येन रूपेण येन सम्बन्धन प्रतिबन्धकत्वं तद्धर्माऽवच्छिनतत्सम्बन्धाऽवच्छिन्नतनिष्ठप्रतियोगिताकाऽभावस्य कारणत्वमित्यवश्यं वाच्यम् , अन्यथा प्रतिवन्धकताऽवच्छेदकसम्बन्धेन प्रतिबन्धकस्य सत्वेऽपि सम्बन्धाऽन्तराऽवच्छिनतन्निष्ठप्रतियोगिताकाऽभावस्य सत्तया प्रतिवध्यीभूतकार्यस्योत्पत्तिः स्यात् , तथा च स्वप्रतियोगिचरमवर्णाऽनुकृलकृतिमत्त्वसम्बन्धेन समाप्तिं प्रति दुरितविशेषलक्षणस्य विघ्नस्य समवायसम्बन्धेन प्रतिबन्धकतया समवायसम्बन्धाऽवच्छिन्नविघ्ननिष्टप्रतियोगिताकाऽभावस्यव कारणत्वम् , ध्वंसीयप्रतियोगितायांसमवायसम्बन्धावच्छिन्नन्वस्यामावेन कारणतावच्छेदकधर्मानाक्रान्तत्वाद् विघ्नध्वंलो न समाप्ति प्रति कारणमिति विघ्नध्वंसकारणत्वेऽपि मङ्गलस्य समाप्ति प्रति प्रयोजकत्वाभावान्न समाप्त्यर्थिनां मङ्गले प्रवृत्तिसम्भवः, तथाऽपि विघ्ने सति विघ्नाऽन्यन्ताभावो न वर्तत इति मङ्गलेन विघ्नध्वंसे जाते नत्प्रयुक्तो विनात्यन्ताभावो वर्तत इत्येतावता विघ्नात्यन्ताभावसम्बन्धप्रयोजकविनध्वंसकारणत्वाद् भवत्येव मङ्गलस्य समाप्तिं प्रति प्रयोजकत्वमिति । उक्तदिशा प्राचीननवीनमतभेदेन मङ्गलस्य सफलन्यमवलम्च्य तत्कर्तव्यतां ग्रन्थारम्भे नैयायिका व्यवस्थापयन्ति ॥ ___अन्ये तु-शिष्टाः क्वचिदभीष्टे प्रवर्तमाना मङ्गलकरणपूर्वकमेव प्रवर्तन्त इति मङ्गलमकृत्वैव ग्रन्थकरणे प्रवर्तमानस्य शिष्टाचाराकरणाद् अशिष्टत्यं परैः सम्भावितमापतेदिति शिष्टाचारपरिपालनमेव मङ्गलफलम् , शिष्टाचारे परिपालिते च शिष्टकृतोऽयं ग्रन्थ इति कृया शिष्टानुयायिभिरध्ययनाध्यापनादिभिराहतो भवतीति प्राहुः । ___ अपरे तु-"श्रेयांसि वहुविघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां वाऽपि यान्ति विनायकाः” ॥१॥ इति वचनाद् नास्तिकग्रन्थस्यातत्त्वाथनिरूपणप्रवणतया मोक्षमार्गप्रतिपन्थित्वेना)योरूपतया तत्र विघ्नासम्भवेन तत्समाप्तेन मङ्गलपूर्वकत्वं किन्तु श्रेयोमागप्ररूपणप्रवणतत्त्वार्थप्रतिपादकास्तिकग्रन्थसमाप्तेरेव मङ्गल