________________
tic
प्रमोदाविवृतिसंवलितं
विषयत्वाद् , इत्यनुमानसिद्धस्य 'विघ्नध्वंसकामो मङ्गलमाचरेद्' इति वेदस्य मङ्गले विघ्नध्वंसजनकत्वबोधकस्य विषयबाधादप्रामाण्यमिति शङ्काऽपि व्युदस्ता, साङ्गे कर्मणि फलावश्यम्भावस्य स्वीकृतत्वेन मङ्गलेन विघ्नध्वंसजनने विघ्नस्य सहकारितयाऽङ्गत्वेन तदभावे मङ्ग. लस्य साङ्गत्वाभावात् ; साङ्गत्वाभावादेव च पापभ्रमेण कृतस्य प्रायश्चित्तस्य पापरूपप्रतियोग्यभावेन पापध्वंसलक्षणफलोपधानाभावेऽपि न पापध्वंसजनकतया प्रायश्चित्तबोधकवेदाप्रामाण्यम् । वि. नस्य समाप्तिप्रतिबन्धकदुरितविशेषस्य तद्वतोऽपि पुसोऽतीन्द्रियतया तन्निश्चयाभावेन तच्छङ्कयैव तध्वसार्थ तेनापि पुंसा मङ्गलस्याचरितत्वेन स्वतःसिद्धविघ्नविरहवताऽपि पुंसा स्वगतविघ्नशङ्काशीलेन विघ्नध्वंसार्थ मङ्गलाचरणमुपपद्यत एव । यद्यप्यभावे वैजात्याभावेन मङ्गलकार्यतावच्छेदकं विघ्नध्वंसत्वमेव वाच्यम्, तच्च न सम्भवति “सर्वे विघ्नाः शमं यान्ति गणेशस्तवपाठतः” इति वचनान्मङ्गलानात्मकादपि गणेशस्तवपाठाद् विघ्नध्वंससम्भवेन विघ्नध्वंसत्वस्य मङ्गलाजन्येऽपिसत्त्वेन मङ्गलजन्यताऽतिप्रसक्तत्वात् , विघ्ने वैजात्यस्य सम्भवेऽपि विजातीयोऽपि विघ्नः सर्वविघ्नान्तर्गत एव, तद्ध्वंसोऽपि मङ्गलाभावे विनायकस्तवपाठाद् भवत्येवेति विजातीयविघ्नध्वंसत्वमपि न मङ्गलस्य कार्यताच्छेदकम्, तथाऽपि मङ्गलाव्यवहितोत्तरजायमानविघ्नध्वंसत्वं मङ्गलस्य, विनायकस्तवपाठाव्यवहितोत्तरजायमानविघ्नध्वंसत्वं विनायकस्तवपाठस्य च कार्यता चच्छेदकं भवत्येव । 'पर्वतो वह्निमान्' इत्यनुमितेः 'वह्निव्याप्यधूमचान् पर्वतः' इति परामर्शादिव 'वह्निव्याप्यालोकवान् पर्वतः' इति परामर्शादपि भावेन सामान्यतः पर्वतत्वावच्छिन्नविशेष्यकवह्नित्वावच्छिन्नप्रकारकानुमितित्वस्यातिप्रसक्ततया तत्तत्परामर्शकार्यतानवच्छेकत्वे तत्तत्परामर्शाऽव्यवहितोत्तरजायमानतथाविधानुमितित्वस्य ततत्परामर्शकार्यतावच्छेदकत्वं यथाऽनुमतं तथा प्रकृतेऽपीति मङ्गलस्य विघ्नध्वंसफलकत्वमुपपद्यतेतराम् , समाप्तिस्तु बुद्धिप्रतिभादित एव, समाप्तिकारणविघ्नध्वंसकारणत्वेन मङ्गलस्य समाप्ति प्रति प्रयोजक