________________
१२६
प्रमोदाविवृतिसंवलितं
वक्तव्यश्चेति त्रिविध उभयरूपः, आदिशब्दसगृहीतश्च कुम्भोऽकुम्भोऽवक्तव्यश्चेति सप्तभेदो घट इति । अत्र च सकल धर्मिविषयत्वात् त्रयो भङ्गा अविकलादेशाः, चत्वारश्च देशावच्छिन्नर्मिविषयत्वाद विकलादेशा इति। यद्यपीशमप्त भङ्गपरिकरितं सम्पूर्ण वस्तु स्याद्वादिन एव संगिआदिशब्देति-'उभयरूपादि०' इत्यादिशब्देत्यर्थः। कुम्भोऽकुम्भोऽवक्तव्यश्रुति-अयं कुम्भश्चाकुम्भश्चावक्तव्यश्चेति सामभङ्गः । सपभेदः कुम्भ त्वादिसतविधधर्मवत्वात् सप्तभेदः। आदिभङ्गत्रये देशादेशो न क्रियते किन्तु अखण्डधवेकैकधर्मात्मना विधीयत इति सकलधर्मिविषयत्वात् सकलादेशाः, चतुर्थादिनाचतुष्टये तु देशभेदेन विभिन्न धर्मयाधात्मना धर्म विधीयत इति देशादेश आधीयत इति विकल्पर्मिविश्यत्वाद विकलादेशाते इत्याह-अत्र अति-उक्तसप्तमु भाष्वित्यर्थः। अविकलादेशाः, सकलादेशाः । अन्ये पुनः सप्तानामपि भङ्गानां सकलादेशत्वं विकलादेशत्वं चाऽऽमनन्ति, कालादिभिरभिः कुम्भत्वायेकैकधर्मस्य कुम्भादिगतान्यधः सद द्रव्याथिकनयादेशाइभेदवृत्तिप्राधान्यात् पर्यायार्थिकनयादेशादभेदवृत्त्युपचारतश्चकधर्मप्रतिपादनद्वारा तदभिन्नसकलधर्मप्रतिपादनेनानन्तधर्मात्मकवस्तुप्रतिपादकत्वतः सकलादेशत्वम् , तैरेव कालादिभिरष्टभिर्द्रव्यार्थिकनयादेशाद् धर्मागां भेदवृत्त्युपवारतः पर्यायार्थिकनयादेशाद् भेदवृत्तिप्राधान्यतश्चैकैकधर्ममात्रप्रतिपादकत्वेनैकैकधर्मास्मनैव धर्मिप्रतिपादकत्वतो विकलादेशत्वम् , सकलादेशस्वरूपा च सप्तभङ्गी प्रमाणवाक्यम् , विकलादेशस्वरूपा च सा नयवाक्यमिति तेषामाशयोऽन्यत्र प्रपश्चितः। ननु सप्तानामपि भङ्गानामुपगमें साम्प्रतनयस्य प्रमाणत्वमेव प्रसज्यत इति तथाभ्युपगच्छतस्तस्य स्याद्वादितैव भवेत् , स्याद्वादिनामेवेदशसप्तभङ्गार्थसमन्वितसम्पूर्णवस्तुस्वीकर्तृत्वादित्यत आह-यद्यपीति-उक्तदिशा सप्तानामपि भङ्गानामभ्युपगमस्य सम्भवे तन्मध्यात् कस्यान्यतरभङ्गस्याधिक्याभ्युपगमः, कस्य च नाभ्युपगमो येन न स्याद्वादित्वम् , एतन्मध्याद