________________
प्रमोदाविवृतिसंवलितं
देशभेदेन भिन्नतया विवक्षिते एकवाक्यानुभयबोधतात्पर्येण तथावोधात्॥४ [चतुर्थो भङ्गः ॥
एकस्मिन् देशे स्वपर्यायैः सत्त्वेनार्पितोऽन्यत्र तु देशे स्वपरोभयपर्यायैः सत्वासत्वाभ्यामर्पितः कुम्भोऽवक्तव्यश्च भण्यले, देशभेदेनैकत्र सत्वावक्तव्यत्वोभयबोधनतात्पर्यैकवाक्येन तथाबोधात् ॥५ [पञ्चमो भङ्गः ॥
एकदेशे परपर्यायैरसद्भावेनार्पितोऽन्यस्मिस्तु स्वपरपर्यायैः सत्वासत्त्वाभ्यामेकेन शब्देन वक्तुमभिप्रेतोऽकुम्भोऽवक्तव्यश्च भण्यते, देशभेदेनैकत्रासत्त्वावक्तव्यत्वो. भयबोधनतात्पर्धेकवाक्येन बोधात् ॥६ [षष्ठो भङ्गः ॥
तथैकस्मिन् देशे स्वपर्यायैः सद्भावेनापितोऽन्यइति चकाराद् देशे' इत्यस्य समुञ्चयः। देशभेदेन घटात्मकाऽघटास्मकदेशभेदेन । एकवाक्यात् स्याद् घटः स्यादघट इति वाक्यात् । उभय मोति-घटत्वाऽघटलोभयबोधेत्यर्थः । तथाबोधाद् घटोऽघटश्चेत्याकारकवोधात् ।
इति चतुर्थभङ्गसमर्थनम् । अथ पञ्चममङ्गसमर्थनायाहएकस्मिन् देश इति । भावना तु दर्शितव ।
इति पञ्चमभङ्गसमर्थनम् । अथ पष्ठभङ्गसमर्थनायाहएकदेश इति-व्यक्तमदः।
इति षष्ठो भङ्गः। अथ सप्तमभङ्गमुपपादयति
तथैकस्मिन्निति । त्रयबोधनेति-सत्त्वाऽसत्त्वाऽवक्तव्यत्वैतत्त्रयबोधनेत्यर्थः।
इति सप्तमभङ्गः।