________________
नयरहस्यप्रकरणम्।
१२३
कशाब्दबोधाविषयत्वरूपस्यावक्तव्यत्वस्य स्वपरपर्यायो. भयावच्छेदेन तृतीयमोपस्थित्या दोषाभावाद,अवच्छिनान्तोपादानादवक्तव्यत्वेकविधेयतामादाय न बाध इति दिक् ॥ ३[तृतीयो भङ्गः] ।
एकस्मिन् देशे स्वपर्यायसत्त्वेनापमिश्च परपर्यायासत्त्वेन विवक्षितो घटोऽघटश्च भण्यते , एकस्मिन् धर्मिणि तद्विषयत्वमेव घटस्येति न तदविषयत्वरूपावक्तव्यत्वम्, तस्याप्रसिद्धौ तद्धिपयत्वात्रसिद्धगा तदभावस्याप्यप्रसिद्धिः, विकल्पवलात् प्रसिद्धय गुपगम्यमप्यानापेक्षिकत्वमेव, तथापि स्यात्पदेन स्व-परपर्यायोभयात्रछेदेन निरुत्तावक्तव्यत्वस्य घटेऽवस्थानलेवावेद्यते, स्वरूपेऽपश्यत्वस्याऽभावेऽस्थितावापेक्षिकत्वस्य सट्टावात् स्यात्पद. प्रयोगोपपत्तिः, स्थिती सापेक्षस्य वक्तव्यत्वस्य भवत्येवैतत्प्रतिपक्षता, तत्र स्वपर्यायावच्छेदेनापेक्षिकस्थितिकस्य वक्तव्यत्वस्य कथञ्चित्सत्त्वलक्षणविशेषेऽन्तर्भावः परपर्यायावच्छेदेनापेक्षिकस्थितिकस्य तस्य कथञ्चिन्नास्तित्वलक्षणविशेपेऽन्तर्भाव इति प्रथमभङ्गादित पव गतार्थत्वान्न वसाव्यत्वविषयस्याटमभङ्गस्यापत्तिरिति हृदयम् । 'प्रकृतविधि निषेधसंसगांवच्छिन्न०' इत्यस्यानुपादाने एकविधेयताऽवक्तव्यत्वनिष्टविधेयता तन्निरूपकः शाब्दयोधस्तृतीयमङ्गजन्यशाब्दबोधः, तद्विषयत्वमेव कुम्मादाविति वाधः स्यात् , तधारणाय तदुपादानम् , तथा चास्तित्वस्य नास्तित्वस्य च यः संसर्गः स नावक्तव्यत्वस्य किन्न्वन्य एवेत्यवक्तव्यत्वनिष्ठविधेयता न प्रकृतविधिनिषेधसंसर्गावच्छिन्नेति तन्निरूपकशाब्दबोधविषयत्वमादाय न वाध इत्याह-अवच्छिन्नान्तोपादानामिति ।
इति तृतीयमङ्गसमर्थनम् । अथ चतुर्थभङ्गसमर्थनायाह
एकस्मिन् दश इति-अनन्तधर्मात्मकत्वेन समूहरूपस्य कुम्भस्यैकैकधर्मात्मकं स्वरूपं देश इति तस्मिन्नेकदेश इत्यर्थः । 'परस्मिश्च