________________
प्रमोदाविवृतिसंवलितं
सिद्धेः। विकल्पबलात् कथञ्चित्प्रसिद्धावप्यनापेक्षिकत्वेन तत्र स्यात्पदप्रयोगानुपपत्तेः, तथा चापेक्षिकविशेषवि. श्रान्तवक्तव्यत्वप्रतिपक्षावक्तव्यत्यासिद्धौ वक्तव्यत्व. विषयस्याष्टमभङ्गस्यापत्तेः । अवक्तव्यत्वप्रतिपक्षस्य विशेषविश्रान्तत्वादेव नाष्टम भङ्गापत्तिरिति हि सम्प्रदाय इति चेत् , न-प्रकृतविधिनिषेधसंसर्गावच्छिन्नैकविधेयताविकल्पबलादिति । ईदृशावक्तव्यत्वस्य न कस्यचिदपेक्षेति तन स्यादर्थस्य किञ्चिदपेक्ष्यत्वस्य न योग इति 'स्यादवक्तव्य एव' इति तृतीयभोलेको न भवेदित्याह-अनापेक्षिक नेति निरुत्तावक्तव्यत्वस्यानापेक्षिकत्वेनेत्यर्थः । तत्र तृतीयभने । माऽस्तु स्यात्पदप्रयोगः, 'अवतव्यमव' इत्यमेव प्रयुज्यतां तृतीयभङ्ग इत्यत आह-तथा चतिअनापेक्षिकावक्तव्यत्वमादाय तृतीयमझोपपादने वेत्यर्थः। सत्तभङ्गयां परस्पर प्रतिपक्षयोरेव विधि-निषेधयोः प्रतिपादकानि सप्त वाक्यानि भाभिधयानि घटकानि नान्यथाभूतानि, इदं चावक्तव्यत्वमनापेक्षि. कमिति तत्प्रतिपादकं वाक्यमतथाभूतमेव यदि तत्र निविशते तदा वक्तव्यत्वमप्यनापेक्षिकं किञ्चिदुपगम्य तत्प्रतिपादकं 'वक्तव्यमेव' इत्येवंरूपस्याटमभङ्गस्यापि तत्र सन्निवेशः प्रसज्यते, यत आपेक्षिकावक्तव्यत्वस्य सद्भावेन तत्प्रतिपादकमङ्गापेक्षिकवक्तव्यत्वप्रतिपादकभङ्ग एवाकलनायः स्यात् , आपेक्षिकावक्तव्यत्वस्यापेक्षिकमेव वक्तव्यत्वं हि प्रतिपक्षम, तच्च कश्चिदस्तित्वादिविशेषस्वरूपमेव, तत्प्रतिपादच प्रथमभङ्गादिक वर्तत एवेति न तत्प्रतिपादकस्याट्रमभङ्गस्यापत्तिः, अनापेक्षिक चावक्तव्यत्वं नापेक्षिकास्तित्वादिविशेषप्रतिपक्षभूतमतस्तत्प्रतिपादकं यथाकामत व तत्र सन्निविशते तथा यथाकामत एव वक्तव्यत्वप्रतिपादकभङ्गसंनिवेशः स्यादित्याशयः । वक्तव्यस्य विशेषविश्रान्तत्वे सत्येव नाटमभङ्गापत्तिरित्यत्र प्राचां सम्मतिमाह- अवक्तव्यत्वप्रतिपक्षस्येति । विशेषविधान्तत्वादेव कथञ्चिदस्तित्वादिविशेषस्वरूपविश्रान्तत्वादेव । समाधत्ते-नेति-अत्रापि प्रकृतविधि निषेधसंसर्गावच्छिन्नैकविधेयताकशाब्दबोधस्य प्रसिद्धौ