________________
नयरहस्यप्रकरणम् ।
११९
च्छिन्ना कुम्भत्वसत्त्वात् । नन्वेवं कुम्भत्वानवच्छेदकप्रमेयत्वावच्छेदेनाप्यकुम्भत्वापत्तिः, नानाधर्मसमुदायरूपकुम्भत्वे प्रमेयत्वस्याप्यवच्छेदकत्वात् ॥ २ [द्वितीयो भङ्गः ] ॥
तथा सर्वोsपि घटः स्वपरोभयपर्यायैः सद्भावास भावाभ्यामर्पितोऽवक्तव्यो भण्यते, स्वपरपर्यायतत्त्वा सत्त्वाभ्यामेकेन केनापि शब्देन सर्वस्यापि तस्य युगपदक्तुमशक्यत्वात् । अथैकपदवाच्यत्वं घटस्य स्वपarवच्छिन्नत्योपरागेणापि नास्तीति तदवच्छेदेनाप्यवाच्य तापत्तिः, वस्तुतः स्वपर्याraatravदवाच्यत्वेपर्यायावच्छिन्नस्यैकपदवाच्यत्वेनावक्तव्यत्वाभावे वस्तुतः कथञ्चिदुपर्यायावच्छिन्नदकमिति प्रमेयत्वादिनाऽप्यसङ्गावेनार्पितोऽकुम्भो भवेदित्याशङ्कते - नन्वेवमिति । प्रमेयत्व वाच्यत्वादिकं सर्वमेव कुम्भे समस्तीति तत्सर्वस्वरूपमेव कुम्भत्वमिति तदवच्छेदकं प्रमेयत्वादिकमपि भवतीति न तस्याकुम्भत्वावच्छेदकत्वमिति तदवच्छेदेन सद्भावार्पणमेव नासद्भावार्पणमिति समाधते- नानाधर्मेति ।
इति द्वितीयभङ्गसमर्थनम् । अथ तृतीयभङ्गसमर्थनायाह
तथेति । कथं तथाऽर्यमाणस्यावकव्यत्वमित्यपेक्षायामाह - स्वपरपर्यायसत्त्वासत्त्वाभ्यामिति । तस्य घटस्य । 'अर्थ' इत्यारस्य 'सम्प्रदायः ' इत्यन्तमेका फक्किका तृतीयभङ्गासम्भवाऽऽशङ्कास्वरूप वोध्या ! यावन्तो घटस्य स्वपर्यायास्तावद्धर्मावच्छिन्नत्वेन घटस्य बोधकं नैकं किमपि पदं समस्तीति स्वपर्यायावच्छिन्नत्वेनापि घटस्थावक्तव्यत्वं स्यादित्याह - एकपदवाच्यत्वमिति । तदवच्छेदेनापि स्वपर्यायावच्छेदेनापि । ननु कुम्भादिपदेन घटोऽभिधीयते स च घटः स्वपर्यायावच्छिन्न इति कृत्वा घटस्य स्वपर्यायावच्छिन्नस्यैकपदवाच्यत्वं समस्तीत्यत आह-- वस्तुत इति - वस्तुस्थित्येत्यर्थः । एवं च