________________
११८
प्रमोदाविवृतिसंवलितं
-
वाक्येच्छारूपगुर्वर्पणयाऽयमूर्यग्रीवत्वादिना कुम्भ एव कुम्भः, ऊर्वश्रीवत्वादिना कुम्भ एवेत्यादिवाक्यप्रयोगात् । इत्थमेवोदेश्यसावधारणप्रतितेर्वादान्तरोत्थापित. विपरीताभिनिवेशनिरासस्य च सिद्धेः ।। १ [प्रथमो भङ्गः] || इदमेव भङ्गान्तरेऽप्यर्पणप्रयोजनं बोध्यम् ।
पटादिगतस्त्वत्राणादिभिः परपर्यायैरसदभावेनापितोऽकुम्भो भण्यते, कुम्भे कुम्भत्वानवच्छेदकधर्माव. त्वाद्यवच्छेदेन यः स्वशिष्यनिष्टो बोधस्तत्प्रयोजकं यत् प्रकृतवाक्यम्'अयमूर्ध्वश्रीवात्वादिना कुम्भ एव कुम्भ' इत्यादिवाक्यं तस्य या वत्तृगता विवक्षारूपेच्छा तद्रूपा गुरुगता याऽर्पणा तयेत्यर्थः, अस्य वाक्यप्रयोगाद्' इत्यनेनान्वयः । इत्थमेव अमुना प्रकारेण वाक्यप्रयोगादेव। उद्देश्येति-उद्देश्या शिष्यगततयाऽभीष्टा या सावधारणप्रतीतिस्तस्याः सिद्धेः, तया वादान्तरेण मतान्तरेणोत्थापितो जनितो यो विपरीत ऊर्ध्वग्रीवत्वाद्यन्यधर्मेण नामकुम्भादीनामपि कुम्भत्वाद्यभ्युपगमलक्षणोऽभिनिवेशः कदाग्रहस्तन्निरासस्य च सिद्धेरित्यर्थः। एतावतैतन्मते स्यादस्त्येव कुम्भः।
इति प्रथमभङ्गस्योपपादनम् । अनया दिशैव द्वितीयभङ्गादिसमर्थनमप्यवसेयमित्याह-इदमेवेतिउद्देश्यसावधारणप्रतीति वादान्तरोत्थापितविपरीताभिनिवेशनिरास द्वयलक्षणमेवेत्यर्थः ।
अथ तत्र द्वितीयभङ्गं समर्थयति
पटादिगतेरिति । ऊर्ध्वग्रीवत्वादिकमेव कुम्भतत्त्वसत्तावच्छेदकं न तु पटादिगतं त्वक्त्राणत्वादिकं तदवच्छेदकमिति प्रतियोग्यनवच्छेदकस्य तद्भावावच्छेदकत्वमिति नियमेन त्वक्त्राणत्वादिकं भवति कुम्भत्वसत्त्वाभावरूपाकुम्भत्वसत्त्वावच्छेदकमिति त्वक्त्राणत्वाद्यवच्छिन्नाकुम्भत्वसत्त्वतो द्वितीयभङ्गोपपत्तिरित्याशयेनाह-कुम्भ इति । ननु प्रमेयत्वादिकमपि कुम्भत्वानवच्छेदकत्वादकुम्भत्वावच्छे