________________
प्रमोदाविवृतिसंवलितं
सायविशेष इत्येतदर्थ:, तेन नातिप्रसङ्गादिदोषोपनिपातः । तत्रापि "नामादिषु प्रसिद्ध पूर्वाच्छन्दादर्थे प्रत्ययः साम्प्रतः " [त०१,३५] इति साम्प्रतलक्षणम्, प्रतिविशिष्टवर्तमान पया नामादिष्वपि गृहीतसङ्केतस्य शब्दस्य भावमाaataaravaarयीति तदर्थः । तथात्वं च भावातिरिक्तविषयांश उक्तसङ्केतस्याप्रामाण्यग्राहकतया निर्वहति । शब्दनयाऽवान्तरनयेषु साम्प्रतनयं निरूपयति तत्रापीति-शब्दनयेऽपीत्यर्थः । 'नामादिषु प्रसिद्ध पूर्वाच्छब्दादर्थे प्रत्ययः' इति लक्षणम्, 'साम्प्रतः ' इति लक्ष्यम् । उक्त लक्षणवाक्यार्थमुपदर्शयति- प्रतिविशिष्टेति परस्परव्यावृत्तेत्यर्थः नाम्नो यो वर्तमानपर्यायः स स्थापनादिवर्तमानपर्यायेभ्यो भवः, एवं स्थापनादिवर्तमानपर्याया अपि नामादिवर्तमानपर्यायेभ्यो व्यावृत्ता इति । पर्यायनये वर्तमानपर्यायाना एव नामादय इति ज्ञापनार्थमेव प्रतिविशिष्टवर्तमानपत्रेषु' इत्युक्तम् । नामादिष्वपि नाम-स्थापना- द्रव्य भावेष्वपि । पर्यापनयविशेषे ऋजुसूत्रनये नामादिचतुर्णामप्यभ्युपगमाच्चतुर्ष्वपि पदसदेत ग्रहणञ्चतुर्णाम प्यववोधकत्वं शब्दस्येत्यतस्ततो वैलक्षण्यमावेदयति-गृहीतसङ्केतस्येत्यादिततो भावमात्रे गृहीतसङ्केतस्य शब्दस्य भावमात्रावबोधकत्वपर्यवसायी योऽध्यवसायविशेषः स साम्प्रतनय इति । तदर्थः नामादिषु प्रसिद्धपूर्वाच्छन्दादर्थप्रत्यय इति वाक्यार्थः, अर्थात् 'प्रसिद्धपूर्वाद्' इत्यस्य गृहीतसङ्गतिकादित्यर्थः । तथात्वं च गृहीतसङ्गतिकस्य शब्दस्य भावभावोधकत्वं च । यद्यपि शब्दस्य सामान्यतो नानादिषु चतु
पि सङ्केतस्तथापि भावमात्रबोधकत्वमेवेत्यतो भावातिरिक्तविषयांशे सङ्केतोऽयथार्थ इति भावमात्रवोधकत्वतो ज्ञायते । भावमात्रवोधकत्वाभावेऽन्यत्रापि यथार्थत्वमेवोक्तसङ्केतस्य स्यादित्याह-भावातिरिक्तेति। साम्प्रतनयः कश्चिलिङ्गभेदेनाऽर्थ भेदग्राहकः कश्चित् सङ्ख्याभेदेन कश्चित् तु पुरुषभेदेनार्थभेदादिग्राहक इत्येवं बहुविधः, तत्र शब्दस्य भावमात्र बोधकत्वपर्यवसायी योऽध्यवसायविशेषो न भवेत् तत्राव्याप्तिरुक्तलक्षणस्य मा नाम स्यादित्येतदर्थं जातिघटितलक्षणमाह
११४
"
·