________________
नयरहस्यप्रकरणम्।
तेषामुक्तसूत्रांवरोधः। न चोक्त एवैतत्परिहार इत्येतन्मतपरिष्कार इति वाच्यम् , नामादिवदुपचरितद्रव्यनिक्षेपदर्शनपरत्वादुक्तसूत्रस्य तदनुपपत्तेः, अधिकमन्यत्र ॥४॥
आदेशान्तरे "यथार्थाभिधानं शब्दः" [त०१,३५] इति त्रयाणामेकं लक्षणम्। भावमात्राभिधानप्रयोजकोऽध्यवऋजुसूत्रः । तेषां वादिसिद्धसेनमतानुसारिणाम् । उक्तस्त्रविरोधः-- ऋजुसूत्रो यदि द्रव्यं नाभ्युपेयात् तदा “उज्जुसुअस्स पगे अणुवउत्ते एगं दवावस्सयं पुहन्तं णेच्छद" [प०३३] त्ति सूत्रं विरुध्येत इति ग्रन्थेनोक्तस्त्रविरोधः। 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः । उक्त एवेति-"उक्तसूत्रं त्वनुपयोगांशमादाय वर्तमानावश्यकपर्याये द्रव्योपचारात् समाधेयम्" [५० ३४] इति ग्रन्थेनोक्त एवेत्यर्थः। एतत्परिहारः-उक्तसूत्रविरोधपरिहारः। एतन्मतपरिष्कारे वादिसिद्धसेनमतोपपादने । उपचरितद्रव्यनिक्षेपप्रदर्शनपरत्वेन सूत्रविरोधः परिहतः, स चायुक्तः-उक्तसूत्रे उपचरितार्थत्वाभावादित्याह-नामादिवदिति। तदनुपपत्तेः-उपचरितद्रव्यनिक्षेपप्रदर्शनपरत्वानुपपत्तेः॥
॥ इति ऋजुसूत्रनयनिरूपणम् ॥
अथ शब्दन निरूपयति
आदेशान्तर इति-शब्दपदेनैव साम्प्रत-समभिरू लैबाभूतात्मकनयमेदत्रयोपसङ्ग्रहात् पञ्चेत्यादेशान्तरं तत्र, नयाः पञ्च नैगम-सङ्ग्रह व्यवहार-ऋजुसूत्र-शब्दवेदादिति मत इति यावत् । 'यथार्थाभिधानम्' इति लक्षणम् , 'शब्दः' इति लक्ष्यम्। त्रयाणां शब्द समभिरूद्वैवस्वानाम् । 'एकं लक्षणम्' इत्युक्त्यैकलक्षणलक्षित. त्वाद् एकत्वमिति पच नया एतन्मले उपपद्यन्ते। सथार्थाभिधानत्वं नैगमादिनयेऽतिप्रलक्तमत आह-भावमात्रेति। नैगमादिनयश्च द्रव्याघभिधागप्रयोजकोऽपीति न तत्रातिप्रसङ्ग इत्याह तेनेति ।