________________
प्रमोदाविवृतिसंवलितं
ङ्गमस्ति नवेति जिज्ञासुप्रने शशशृङ्गं नास्तीत्येवाभिधातुं युक्तत्वात्, आनुपूर्वीभेदादुद्देश्य सिद्धेः । इत्थमेव पीतः शङ्खो नास्तीत्यादेरपि प्रामाण्योपपत्तेः । काल्पनिकस्याप्यर्थस्य परप्रतिबोधार्थतया कल्पिताहरणादिवद् व्यवहरतः प्रामाण्यात् । इत्थमेव नयार्थरुचिविशेषोपादनाय तत्र तत्र नयस्थले दर्शनान्तरीयपक्षग्रहस्य तान्त्रिकैरिष्टत्वादिति दिक् । अस्यापि चत्वारो निक्षेपा अभिमताः । द्रव्यनिक्षेपं नेच्छत्ययमिति वादिसिद्धसेनमतानुसारिणः।
११२
वामस्तीति । यद्यपि शशशृङ्गं नास्तीत्येव प्रयुज्यते, तेन च शशशृङ्गस्याभावः प्रतीयते, यथा घटरूपं नास्तीत्यादौ घटारूपाद्यभावः तथाऽपि घटरूपं नास्तीत्यादावाश्रयान्तरे घटरूपं निषिध्यते, प्रकृते तु नैवमिति तत्र विशिष्टाभावबोधनेऽपि प्रकृतानुपूर्वीविशेषाच्छो शृङ्गाभावबोधस्य सम्भवेन वक्तुः शशे शृङ्गाभावो वोधयितुमिष्टत्वादुद्देश्यः तत्सिद्धिसम्भवात् शाब्दबोधवैचित्र्यानुरोधेनानुपूर्वलक्षणाऽऽकाङ्क्षावैचित्र्यस्योपेयत्वादित्याशयेनाह - आनुपूर्व भेदादुद्देश्यसिद्धेरिति उक्तं च चिन्तामणिकृता - "गवि शशशु नास्तीत्यप्रतीतेः शशशु नास्तीत्येव प्रतीतस्तत्र च शशे सुजाभाव एव विषयः " इति अथवा शशशृङ्ग न नाम जर्गात इत्यवोधनमेव जिज्ञासुं प्रत्युद्देश्यम् तदवयोधनं च शश नास्तीत्यानुपूर्वीन सम्भवतीति तादृशानुपूर्वीनेदादुक्तोद्देश्य सिद्धेरित्यर्थः । पीतवस्यासत्त्वेऽपि तविषेयो भवति, तत्रापीयमेव गतिरित्याह-थमवति । न शशशृङ्गस्य काल्पनिकत्वे तत्र नास्तित्वमपि काल्पनिकमिति daarata कथं प्रामाण्यमित्यत आह- काल्पनिकस्यापीति । इत्थमेव उक्तप्रकारेणैव । अस्यापि ऋजुसूत्रनयस्यापि । वादिसिद्धसेनदिवाकरमते ऋजुसुत्रस्य न द्रव्यनिक्षेपाभ्युपगन्तृत्वमित्याह- द्रव्यनिक्षेपमिति । अयम्
2