________________
१०६
प्रमोदाविवृतिसंवलितं
न- प्रत्यक्षे तथाकारानुपरागात्, प्रबुद्धवासनादोषजनिततथाविकल्पाच वस्त्वसिद्धेः । अनुभवाविशेषे विकल्पाविशेष इति चेत्, न उपादानव्यक्तिविशेषेणोपादेयव्यक्तिविशेषादित्यन्यत्र विस्तरः ।
"सतां साम्प्रतानामर्थानामभिधान- परिज्ञानमृजुसूत्र :' शयेन प्रतिक्षिपति-नेति । तथाकारानुपरागात् अतीतानागताकारसम्ब न्धाभावात् । अतीतानागताकारोक्तज्ञानादेव कुतो न तथाभूतवस्तुसिद्धिरित्यपेक्षयामाह - प्रबुद्धेति प्रबुद्धवासनाजनितत्वविशेषणेन तथाविधज्ञानस्य भ्रान्तत्वमावेदितम् । तथाविकल्पाच्च अतीतानागताज्ञानलक्षणविकल्पात् पुनः । ननु प्रत्यक्षात्मकमपि पूर्वसमनन्तरज्ञानेन जन्यते विकल्पोऽपि तथेति प्रत्यक्षस्य प्रामाण्ये विकल्पस्यापि तत्त्वमिति ततोऽपि वस्तुसिद्धिः स्यादेवेति शङ्कते - अनुभवाविशेषे इति"यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता" इति वचनात् प्रत्यक्षस्थलेऽपि विकल्पद्वारैव प्रत्यक्षस्य प्रामाण्यं प्रमाणीभूत विकल्पकारणस्य प्रत्यक्षस्य यथाऽनुभवत्वं तथोक्त विकल्पकारणप्रत्यक्षस्यापि तत्त्वमिति तदविशेषे यथैकस्य विकल्पस्य वस्तुसाधकत्वं तथाऽपरस्यापि, विकल्पत्वेन तयोरविशेष एवेत्यर्थः । वस्तुसिद्धौ द्वारीभूतस्य विकल्पस्योपादानीभूता या प्रत्यक्षव्यक्तिस्ततो विलक्षणीभूतो विकल्पोपादानीभूता प्रत्यक्षव्यक्तिः, यस्याः प्रभूतवासनादोषः सहकारीत्यत उपादेयविकल्पव्यक्त्योर्विशेषस्य सद्भावादिति समाधत्तेनेति । ग्रन्थगौरवभयाञ्चैतद्विषयविचारोऽत्र प्रतन्यते, ग्रन्थान्तरे विचारितोऽयमर्थस्ततो विशेषजिज्ञासुभिरवसेय इत्याशयेनाह - इत्यन्यत्र विस्तर इति । तत्त्वार्थभाप्योक्तमृजुसृत्रलक्षणमुपदर्शयतिसतामिति- अर्थक्रियाकारित्वलक्षणसत्त्वशालिनामित्यर्थः । वर्तमानक्षणस्वरूपस्यैवार्थक्रियाकारित्वं नातीतानागतयोरित्याशयेनाह - साम्प्रतानामिति - वर्तमानानामित्यर्थः । अभिधान - परिज्ञानमित्यत्र समाहारद्वन्द्वः, तेनार्थक्रियाकारिवर्तमानक्षणस्वरूपार्थस्याभिधानं ज्ञानं च ऋजुसूत्र - मित्यर्थः । ऋजुसूत्रस्य व्यवहारनयादतिशायित्वमेव लक्षणमिति