________________
नयरहस्यप्रकरणम्।
१०७
Ranism
इति [१. ३५] तत्त्वार्थभाष्यम् , व्यवहारातिशायित्वं लक्षणमभिप्रेत्य तदतिशयप्रतिपादनार्थमेतदुतम् । व्यवहारो हि सामान्य व्यवहारानङ्गत्वान्न सहर, कथं तार्थमपि परकीयमतीतमनागतं चापि,अभिधानमापे तथाविधार्थवाचकम् , ज्ञानमपि च तथाविधाविषयमविचार्य सहेतेत्यस्याभिमानः । न चायं वृथाभिमानः, स्वदेश-कालतदतिशयप्रतिपत्त्यर्थमेवोक्तभाष्यमित्याह-व्यवहारातिशामित्वमिति । ऋजुसुत्रस्य व्यवहारतोऽतिशयप्रतिपादनाय व्यवहारमन्तव्यस्यायुक्तता मावेदयन्नाह-व्यवहार इति-अस्य 'न सहते' इत्यनेनान्वयः । हि यतः, सामान्येन जलाहरणादिक्रिया न भवतीत्यतो व्यवहाराऽनङ्गत्वात् सामान्यं नाभ्युपगच्छति व्यवहार इत्यर्थः । यथा सामान्यं नार्थक्रियाकारि तथा परकीयार्थोऽपि न स्वार्थक्रियाका नमपि नाभ्युपगच्छेदेव, तथाऽतीतमनागतं चार्थमर्थक्रियाकारित्वाभावान्नाभ्युपगच्छेदेव, अभिधानस्यापि तथाभूतार्थवाचकस्य सदर्थप्रतिपादकत्वाभावादनभ्युपगम एव समुचितः, ज्ञानस्यापि तथाभूतार्थावगाहिनः सदर्थविषयकत्वाभावादनुपगम एव ज्यायान् , तथा चार्थ परकीयमतीतानागतं च तदभिधानं तज्ज्ञानं चाभ्युपगच्छन् व्यवहारो व्यवहाराऽनङ्गभूतार्थाभ्युपगन्तुत्वेन न परीक्षकपरीक्षाक्षेत्रमित्याह-कथं तीति-'अर्थमपि परकीयम्' इत्यस्य 'सहेत' इत्यनेनान्वयः, एवम् 'अतीतमनागतं च' इत्यादेरपि 'सहेत' इत्यनेनान्वयः, सर्वस्मिन्नपि प्रत्येकं कथं तर्हि इत्यस्यान्वयः। 'अविचार्थ' इत्युक्त्या विचारे क्रियमाणे तेषामसहनमेव युक्तमित्यावेदितम् । तथा च तेपामुपगमो विचारत एव व्यवहारस्येति न सूक्ष्मविचारपाटवं तस्येति ध्वनितम् । इति एवंस्वरूपः । अस्य ऋजुसूत्रस्य । अभिमानः-- अभिनिवेशः । अस्याभिमानस्य निष्प्रयोजनत्वे कदाग्रहरूपतैवेत्यपि नास्तीत्याह-न चेति । स्वदेशेति-स्वदेश एव वस्तुनोऽर्थक्रियाकारित्वलक्षणसत्त्वेन परकीयार्थस्य स्वदेशसत्त्वाभावेनासत्त्वमेव, एवं वर्त