________________
नयरहस्यप्रकरणम् ।
ग्राहित्वं च भावत्वेऽतीतानागतसम्बन्धाभावव्याप्यत्वोपगन्तृत्वम . नातोऽतिप्रसङ्गः। वर्तमानक्षणसम्बन्धवादतीनानागनक्षणसम्बन्धोऽपि कथं न भावानामिति चेत् , विरोधात। अतीतत्वानतीतत्वयोरेव विरोधो न बती. तत्वानागनत्वयोरिति चेत् , न-अलागतोनातीतत्वा. क्षेपान। अनीतानागताकारज्ञानदर्शनादविरोधादिति चेत. भावन्ध इति-यत्र यत्र भावत्वं तत्रातीलानागतकालसम्बन्धासा इत्येवं यद् भावत्वस्यातीतानागतकालसम्वन्धाभावव्याप्यत्वं तदभ्युपगन्तृत्वमित्यर्थः । अतः-उक्तस्वरूपप्रत्युत्पन्नग्राहित्वस्याध्यवसायविशेषे निवे. दातः । नानिप्रसङ्गः-नैगमादी नातिव्याप्तिः । उत्तव्याप्तिमसहमानः पर आह-वतमानति-तथा चातीतानागतसम्बन्धवत्यपि भावे भावन्वं वर्तत इति नोक्तव्याप्यत्वं भावत्वे इत्याठायः। यत्रातीत नत्र नानागतत्वमिति विरोधादेव नैकस्यातीतानागतकालसम्बन्ध इत्युक्त व्याप्तिः स्यादेवेत्युत्तरयति-विरोधादिति । भावाभावयोरेव विरोध इत्यतीतत्वस्याऽनतीतत्वेनैव विरोधो न त्वनागतत्वेनेति शङ्कतेअतीतत्वेति । एवकारव्यवच्छेद्यमेवोपदर्शयति-न विति। यथा च भावस्य स्वाभावेन विरोधस्तथा स्वाभावव्याप्येनापि, अनागतत्वं चानतीतत्वलक्षणो योऽतीतत्वाभावस्तद्व्याप्य एव, अनागतत्वज्ञानेऽतीतत्वज्ञानादिति भवत्यनागतत्वस्यातीतत्वेन विरोध इति समाधत्ते-नति । अनतीतत्वाक्षेपाद् अनतीतत्वज्ञानात् । एकमेव ज्ञानमतीताऽनागताकारद्वयशालि दृश्यत इति नातीतत्वाऽनागतत्वयोर्विरोधः, ज्ञानस्यातीताकारेणानागताकारेण चाभेदः, आकारे चातीतत्वाऽनागतत्वयोः सत्त्वे तदभिन्ने ज्ञानेऽपि तयोः सत्त्वमित्याशयेन शङ्कते-- अतीतेति। तच्च ज्ञानं वासनाप्रभवं विषयीभूताऽतीताऽनागतासावे ऽप्युपजायत इति तदाकारयोर्न वस्तुतोऽतीतत्वाऽनागतत्वे, ततस्तद्द्वारा न ज्ञानेऽपि ते, विषयजनितं च प्रत्यक्षं नाऽतीताऽनागताऽऽकारद्वयशालीति नाऽतीतत्वाऽनागतत्वसामानाधिकरण्यसिद्विरित्या