________________
१०४
प्रमोदाविवृतिसंवलितं
त्ययमिति केचित् , तेषामाशयं न जानीमः, न हीन्द्रप्रतिमायां नेन्द्रव्यवहारो भवति, नवा भवन्नपि भ्रान्त एव, नवा नामादिप्रतिपक्षव्यवहारसायमस्तीति,अर्धज. रतीयमेतत्, यदुत-लोकव्यवहारानुरोधित्वं स्थापनानभ्युपगन्तृत्वं चेति ३॥
"प्रत्युत्पन्नग्राह्यध्यवसायविशेष ऋजुसूत्रः"।
"पच्चुप्पण्णग्गाही, उच्जुसुओणयविही मुणेयव्वो" [विशेषावश्यकनि० गा० २१८४] त्ति सूत्रम् । प्रत्युत्पन्नलोके इन्द्रप्रतिमायामपीन्द्रव्यवहारो भवत्येवेत्यत उक्तमतमनुभवबाधितमित्याह-नहीति-निषेधद्वयेन तत्र तदव्यवहारस्य दृढत्वमा. वेदितम् । उक्तव्यवहारस्य भ्रान्तव्यवहारत्वेन विषयासाधकत्वमित्यपि नास्तीत्याह-नवेति । भवन्नपि इन्द्रप्रतिमायामिन्द्रव्यवहारो जायमानोऽपि, भ्रान्तत्वं तस्य तदा स्याद यदि केनचित् प्रमाणेनात्र बाधावतारः स्यात् , नास्ति च स इति बाधितार्थविषयत्वाभावान्न भ्रान्तत्वमित्याशयः। यदि च स्थापनायां नामादिनिक्षेपव्यवहारो भवेत् तदा तत्साङ्कर्यादसङ्कीर्णस्थापनानिक्षेपत्वं न भवेदपि, न चैवमपीत्याह-नवेति । नामादीति-आदिपदादू भाव-द्रव्ययोरुपग्रहः । नामा. दिनिक्षेषरूपो यः स्थापनानिक्षेपप्रतिपक्षः स्थापनानिक्षेपविरोधी तद्व्यवहारो यदि इन्द्रप्रतिमायां भवेत् तदा तत्साकर्य स्थापनानिक्षेपव्यवहारस्य, तन्नास्तीत्यर्थः। 'एतद् इति यदुक्तं तदेव दर्शयति-यदुतेति ॥
॥ इति व्यवहारनयनिरूपणम् ॥ 0
अथ ऋजुसूत्रं निरूपयति-- प्रत्युपन्नेति-'प्रत्युपन्नग्राही अध्यवसायविशेषः' इति लक्षणम् , 'ऋजुसूत्रः इति लक्ष्यस् । उक्तलक्षण-लक्ष्यभावे सूत्रं प्रमाणयति-पच्चुपण्णेति"प्रत्युत्पन्नग्राही ऋजुसूत्रो नयविधितिव्यः” इति संस्कृतम् , यश्च कालत्रयाभ्युपगन्ता नैगमादिस्तत्रापि वर्तमानलक्षणप्रत्युत्पन्नग्राहित्वं समस्तीत्यतिप्रसक्तमेवोक्तलक्षणमत आह-प्रत्युत्पन्नग्राहित्वं चेति ।