________________
नयरहस्यप्रकरणम्।
१०३
वाक्ये स्वजन्यबोधे भ्रमरविषयतानिरूपितपत्रवर्णत्वाव्यविषयतायां व्यवहारिकत्वाभावान्न तथास्वनिति दिक्। कुण्डिका स्रवति,पन्था गच्छतीत्यादौ पालना गौण प्रयोगादुपचारप्रायः, विशेषप्रधानत्वाच विस्ततार्थ इति । अयमपि सकलनिक्षेपाभ्युपगमपर एव । स्थापना मेच्छकर्तुमशक्यत्वादित्याह-यद्यपीति । स्वीक्रियत इति-न पक्षपातमात्रात् किन्त्वनुभवानुरोधादिति । लोकप्रसिद्धति-यत्रादृष्टेऽप्यर्थ लोकप्रद्धिबलीयसी संवृत्ता, तदनुसारि च तदनुवादस्वरूपं वाक्यं सत्यर्थः। सा नैश्चयिकविषयतासंवलिता व्यावहारिकी विषयता। स्वजन्यबोधे कृष्णो भ्रमर इति वाक्यजन्यवोधे। पञ्चवर्णत्वाख्यविषयतायां पञ्चवर्णत्वनिष्ठप्रकारत्वाख्यविषयतायाम, विषयताया विषयस्वरूपत्वेऽपि विषयनामधेयत्वं न भवतीति न पञ्चवर्णत्वगतविषयतायां पथर्णत्वाख्यत्वमिति बोध्यम् । न तथात्वं न नैश्चयिकविषयतासंबलितव्यावहारिकविषयतात्वम् , एतावता व्यवहारनयस्य लौकिकसमत्वमुपपादितम् । अथ तस्योपचारप्रायत्वमुपपादयति-कुण्डिकेति-कुण्डिकादिगतजलादेरेव तच्छिद्रादिद्वारा बहिनिगमनलक्षणं सवणं न तु कुण्डिकायाः, अथाऽपि लोके कुण्डिका स्त्रवतीति व्यवहारप्रवृत्तिरिति जलगतनिर्गमनस्य कुण्डिकायामुपचारः, मार्गे पथिको गच्छति,मार्गस्तु स्थिरभूत एवावतिष्ठते, एवमपि पथिकगतगमनक्रियाया मार्ग उपचार इति । सामान्यापेक्षया विशेषाणामधिकसंख्यकत्वेन तदवमाहिनो व्यवहारस्य सामान्यग्राहिसंग्रहनयापेक्षया विस्तृतार्थमित्याहविशेषप्रधानत्वाचेति-अनेन गौणतया सामान्यमप्यभ्युपगच्छत्तीत्यतो न दुर्नयतेति सूचितम् । यथा च नैगम-सङ्ग्रहौ निक्षेपचतुष्टयमभ्युपगच्छतस्तथा व्यवहारोऽपीत्याह-अयमपीति-व्यवहारोऽपीत्यर्थः,अपिना नैगम-सङ्ग्रहयोरभ्युच्चयः। व्यवहारः स्थापनां नेच्छतीति केपाश्चिन्मतं न रमणीयमित्युपदर्य दर्शयति-स्थापनामिति । अयं व्यवहारः । तेषां व्यवहारस्य स्थापनानिक्षेपानभ्युपगन्तृत्वमित्यभ्युपगच्छताम् ।