________________
१०२
प्रमोदाविवृतिसंवलितं
-
चोभयत्र तुल्यम् । प्रत्यक्षनियतैव व्यवहारविषयता, न त्वागमादिनियतेति तु व्यवहारदुर्नयस्य चार्वाकदर्शनप्रवर्तकस्य मतम् , न तु व्यवहारनयस्य जैनदर्शनस्पर्शिन इति चेत् , सत्यम्-यद्यपि कचिददृष्टार्थे नैश्चयिकविषयतासंवलितैव व्यावहारिकविषयता स्वीक्रियते, तथापि लोकप्रसिद्धार्थानुवादस्थले कचिदेव सेति कृष्णो भ्रमर इति सत्त्वधर्मेण बोध्या। ननु यत्रैव प्रत्यक्षविषयत्वं तत्रैव व्यवहारविपयत्वमिति भ्रमरे पञ्चवर्णस्य प्रत्यक्षविषयत्वाभावाद् व्यवहारविषयत्वमपि न भवतीति पञ्चवर्णो भ्रमर इति वाक्यं न व्यवहारनयानुरोधीत्यत आह-प्रत्यक्ष नियतैवेति-प्रत्यक्षविषयताव्याप्यवेत्यर्थः, प्रत्यअस्य विषयतासम्बन्धेन व्यापकत्वे तु प्रत्यक्षव्यातैवेत्यर्थोऽपि युक्त एवेति बोध्यम् । 'आगमादिनियता' इत्यस्यागमादिप्रमाणजन्यबोधविषयत्वनियतेत्यर्थः। चार्वाकेति-चार्वाकदर्शने हि प्रत्यक्षमेवैकं प्रमाणमिति प्रत्यक्षप्रमाणाविषयो वस्तु नास्त्येवेत्यतो न तस्य व्यवहारविषयत्वमिति । 'जैनदर्शनस्पर्शिनः' इत्यनेन जैनदर्शन आगमादेरपि प्रमाणत्वादागमाद्यवमतार्थस्य लोके व्यवह्रियमाणत्वाद् भ्रमरे पञ्चवर्णस्याप्यागमावगतत्वेन जैनमान्यव्यवहारविषयत्वं स्यादेवेति दर्शितम् । समाधत्ते-सत्यमिति। यस्य कस्यचिदागमावगतार्थस्य व्यवह्रियमाणता प्रत्यक्षाविषयस्यापि भवति तत्र नैश्चयिकविषयतासंवलिता व्यवहारविषयता भवतु नाम नैतावता सर्वस्यापि सांव्यवहारिकप्रत्यक्षाविषयस्यापि व्यावहारिकविषयतेति कृष्णे पञ्चवर्णस्य व्यवहारेऽननुत्रियमाणत्वेन कृष्णो भ्रमर इति वाक्यस्यैव व्यवहारपथावतीर्णत्वेन तजन्यबोधे भ्रमरनिष्ठविशेष्यतानिरूपितकृष्णत्वनिष्ठप्रकारत्वाख्यविषयतैव व्यावहारिकी, न तु भ्रमरनिष्ठविशेष्यतानिरूपितपञ्चवर्णत्वनिष्ठप्रकरत्वाख्यविषयताऽपि तथा, अनुभवस्यान्यथा