________________
प्रमोदाविवृतिसंवलितं
तु वाच्यवाचकभावेनेत्यस्ति विशेष इति चेत्, तहिं स्थापनाया अपि तुल्यपरिणामतया भावसम्बद्धत्वात् किं न नाम्नो विशेष इति पर्यालोचनीयम् । स्यादेतत्-षण्णां प्रदेशस्वीकर्तुगमात् पश्चानां तत्स्वीकार इवात्रापि चतु. निक्षेपस्वीकर्तुस्ततस्तत्रयस्वीकारेणैव सङ्ग्रहस्य विशेषो युक्त इति, मैवम्-देश-प्रदेशवत् स्थापनाया उपचरितविभागाभावेन सङ्ग्रहविशेषादिति दिक् ॥२॥ ध्यमानत्वाद् द्रव्य-नाम्नोभैंद इत्याह-द्रव्यमिति। परिणामितया परिणामपरिणामिभावेन, परिणामित्वस्यैव संसर्गत्वे तु द्रव्ये तत् स्वरूपसम्बन्धेन, भावे निरूपकतयेति बोध्यम् । एवं सति स्थापनाऽपि तदुभयसम्बन्धान्यसम्बन्धेनैव भावसम्बद्धति विशेषात् साऽप्यतिरि
तैव स्वीकरणीयेत्याह-तीति। तुल्यपरिणामतयेति-सद्भूतस्थापनामाश्रित्य यादृशो भावस्याकारविशेषः स्वगतस्तादृशः सन्निवेशविशेषः स्थापनाया अपीत्यनयोस्तुल्यपरिणामतेति, अत्र 'तुल्यपरिमाणतया' इति पाठो युक्तः। परः शङ्कते-स्यादेतदिति । षण्णां धर्मास्तिकायादिपञ्च-तद्देशानाम्। पञ्चानां धर्मास्तिकायादिपश्चानाम् । तत्स्वीकार इव सङ्ग्रहनये प्रदेशाभ्युपगम इव । अत्रापि निक्षेपविषयेऽपि। ततः नैगमात् । तत्त्रयेति-निक्षेपत्रयेत्यर्थः। सङ्ग्रहनय उपचारं नेच्छति देश-प्रदेशयोर्देशत्वाविशेषत्वे सत्यपि भेदकल्पनोपचारत एवेति तदनभ्युपगमाद् युज्यते तत्र तस्य पञ्चानामेव तत्स्वीकारः, प्रकृते तु स्थापनानिक्षेपविभागो नोपचरित इति तस्य सङ्ग्रहनये स्वीकारसम्भवेनानुपचरितत्वलक्षणविशेषस्य सङ्ग्रहेऽप्येतावताऽप्यक्षुण्णत्वमेवेति समाधत्ते-मैवमिति ॥
॥ ॥ इति सङ्ग्रहनिरूपणम् ॥