________________
नयरहस्यप्रकरणम् ।
यादृच्छिकविशेषोपग्रहस्य चाप्रामाणिकत्वात्, पित्रादिकृतसङ्केतविशेषस्यैव ग्रहणान्नाम-स्थापनयोरैक्यायोगात्। एवं च बहुषु नामादिषु प्रातिस्विकैकरूपाभिसन्धिरेव सङ्ग्रहव्यापार इति प्रतिपत्तव्यम् । यदृच्छयैव सङ्ग्रहस्वीकारे तु नाम्नोऽपि भावकारणतया कुतो न द्रव्यान्तर्भाव इति वाच्यम् । द्रव्यं परिणामितया भावसम्बद्धम्, नाम विशेष आद्रियत इति न नाम्नि द्रव्यनिक्षेपप्रवेश इति यदि परो ब्रूयात् तत्राह-यादृच्छिकेति । भावेन्द्रे इन्द्रपदसङ्केत ऐश्वर्यविशेषयोगादेव न तु पित्रादिकृतः, इन्द्रपदसङ्केतविषयत्वलक्षणनामेन्द्रत्वे च पित्रादिकृतसङ्केतविशेष एवं प्रविष्ट इति तेन यथा भानेन्द्रव्यावृत्तिस्तथा स्थापनेन्द्रस्यापीति न स्थापनाया नाम्न्यन्तर्भाव इत्याहपित्रादीति। ननु सङग्रहेणापि निक्षेपचतुष्टयाभ्युपगमे न केनापि कस्यापि सङ्ग्रह इति सङ्ग्रहलक्षणव्यापारामाचे कथमस्याभ्युपगमस्य सङ्ग्रहीयत्वमित्यत आह-एवं चेति-सङ्ग्रहेणापि निक्षेपचतु. प्टयाभ्युपगमे चेत्यर्थः । बहुविति-नाना बहुत्वात् तेषु नामत्वेन रूपेगैक्याभिसन्धिः, स्थापनानां वहुत्यात् ताटु स्थापनात्वेनैक्याभिस. धिरित्येचं सङ्ग्रहव्यापारसभावादुक्ताभ्युपगमस्य सङ्ग्रहीयत्वमित्यर्थः। उक्तदिशा सङ्ग्रहव्यापारमनभ्युपगम्य स्वोरेक्षितसङ्केतविशेषतो नाम-स्थापनायोरेक्येन सङ्ग्रहणस्यैव सङग्रहव्यापारतयाऽऽश्रयणे इण्डमाह-यदृच्छयैवेति। भावकारणतयेति-द्रव्यस्य भावकारणत्वं सर्वसम्मतमेव, नामापि चात्यन्त भक्तिनिर्भरमानलेनाभ्यस्यमान कालान्तरे भावस्वरूपाचातिनिबन्धनं भवत्येव कस्यापि पुरुषधौरेयस्येति भावकारणत्वेन नाम-द्रव्ययोरेक्याध्यवसायलक्षणलङ्ग्रहव्यापारसभावान्नाम्नो द्रव्येऽन्तर्भावः प्रसज्यत इत्यर्थः। द्रव्यं भावरूपेण परिणमत इति द्रव्यं परिणामि, भावः परिणाम इत्यनयोः परिणाम परिणामिभावसम्बन्धः,नाम वाचकम् ,भावो वाच्य इत्यनयोर्वाच्य-वाचकभावसम्बन्ध इति भावेन सह भिन्नसम्बन्धेन सम्ब