________________
प्रमोदाविवृतिसंवलित
कृति- जातीनां पदार्थत्वेनेन्द्रस्थापनाया अपीन्द्रपद सङ्केतविषयत्वात् कथं न गोपालदारकवन्नामेन्द्रत्वम् ? नामभावनिक्षेप साङ्कर्यपरिहाराय [आकृतिभिन्नत्वे सति ] इन्द्रपदसङ्केतविषयत्वं नामेन्द्रत्वं निरुच्यत इति चेत्, हन्त ! तर्हि सोऽयं विशेषो नामस्थापनासाधारण एव सङ्गृह्यतामिति" ते न विचारचञ्चुरधियो देवानाम्प्रियाः, उपचाररूपसङ्केत विशेषग्रहे द्रव्यनिक्षेपस्याप्यनतिरेकप्रसङ्गात्, तदनुसारेणाकृतावपि पदार्थत्वं समस्तीति । इन्दनाद्यर्थक्रियाकारी भावेन्द्रः, नामेन्द्रश्च यत्रेन्द्रपदसङ्केतः क्रियते स इति भावेन्द्रान्नामेन्द्रस्य व्यवच्छित्तये भावेन्द्रव्यावृत्तमेव नामेन्द्र निरुच्यते, निर्वचने आतौ नामेन्द्रत्वं मा प्रसाङ्गीदित्येतदर्थमाकृतिभिन्नत्वे सतीति विशेषणमुपादीयत इति न नामनिक्षेप स्थापनाऽन्तर्भाव इत्याशङ्कते - नागेति आकृतिभिन्नत्वे सतीत्युपादानेऽपि भावव्यावृत्तिः सङ्केतविशेषश्रयणादेव कथमन्यथा भावेन्द्रेऽपीन्द्रपद सङ्केतविषयत्वस्य सच्चाद् भाव-नामनिक्षेपसाङ्कर्यपरिहार इति भावनीयम् । नामभावनिक्षेपसाइर्यपरिहाराय नामविशेषनिरुतौ भावव्यावर्तकस्य सङ्केतविशेषस्यैवावश्यकता, तत्मात्रोपादाने च नाम-स्थापनयोरेकरूपेण सङ्ग्रहः स्यादेवेति समाधत्ते - हन्तेति । उत्तमतं प्रतिपक्षति
इति ग्रहःस्थापनां नेच्छतीत्यभ्युपगन्तार इः। उपचारेतिइन्द्रपदसङ्केतविषयत्वं नामेन्द्रत्वमित्यत्रोपचारलक्षणः सङ्केतविशेषो यदि परिगृह्यते, तदा भावेन्द्रे इन्द्रपदस्य मुख्य एक संकेतो नोपचार इति भावेन्द्रव्यावृत्तिर्वद्यपि भवति तथापि भाविक गोपा earth स्थापनायां च यथोपचारलक्षण इन्द्रपदतस्तथा भावीन्द्र पर्यायकारणेऽनुभूतेन्द्रपर्याये च द्रव्येन्द्रेऽपि येति द्रव्यनिक्षेपस्यापि नामनिक्षेप एवान्तर्भावसम्भवात् सग्रहः स्थापनाtha soar स्वीकुर्यादित्यर्थः । द्रव्यनिक्षेपव्यावृत्त व सङ्केत
९४