________________
नयरहस्यप्रकरणम् ।
मैकरूप्यमित्याशङ्कनीयम् , पाचक-याचकादिनानामप्य. यावत्कथिकत्वात् तदव्यापकत्वात् स्थूलभेदमात्रकथनम् । पदप्रकृति-कृतिभ्यां नाम-स्थापनयोर्भद इति चेत्,कथं तर्हि गोपालदारके नामेन्द्रत्वम् ? अथ नामेन्द्रत्वं द्विविधम् , इन्द्र इति पदत्वमेकमपरं चेन्द्रपदसङ्केतविषयत्वम् , आद्यं नास्ति, द्वितीयं च पदार्थ इति न दोष इति चेत् , तहिं व्यक्त्यायावत्कथिकत्वं न सवेनामव्यापकं यदैव पाकं करोति पुरुषस्तदैव पाचक इति नाम्ना व्यपदिश्यते, यदैव याचते तदैव याचक इति नाम्ना व्यपदिश्यते इति पाचक-याचकादिनानामयावत्कथिकत्वलक्षणेत्वरत्वस्यापि भावादित्याह-पाचकेति । तदव्यापकत्वाद् यावत्कथिकत्वस्य नामाव्यापकत्वात् । कथं तर्हि सूत्रे नाम्नो यावत्कथिकत्वकथनमत आह-स्कूल नेदभात्रायनमिति-बहूनां नाम्नाभिस्थम्भूतानामेवोपलम्मात् तथा कथनमित्यर्थः । नाम पदस्वरूपं स्थापना कृतिरूपा आकृतिविरचनारूपति तयोर्भेद इत्याशङ्कते-पदप्रकृति-कृतियामिति-पदप्रकृतिः पदस्वभावः कृतिराकृतिरचना ताभ्यामित्यर्थः, अत्र 'पदप्रतिकृतिभ्याम्" इति पाठो युक्तः, तत्र प्रतिकृतिः प्रतिमा । अत्र तटस्थः पृच्छति-कथं तहीति-यदि पदस्वरूप नाम तर्हि गोपालदारको नाक्षरसन्निवेशविशेषलक्षणं नामेति तत्र नामेन्द्रत्वं कथम् ? अर्थात् तत्र नामेन्द्रत्वं न भवेदित्यर्थः । तत्रोत्तरमाशङ्कते-अथेति । आद्यमिन्द्र इति पदत्वं नास्ति गोपालदारके न वर्तते । द्वितीयं च इन्द्रपदसतविषयत्वं च । पदार्थ इति-पदार्थ गोपालदारकादो द्वितीयमिन्द्र पदसङ्केतविषयत्वलक्षणं नामेन्द्रत्वं समस्तीति न तस्य नामेन्द्रत्वानुपपत्तिलक्षणो दोष इत्यर्थः । इन्द्रपदसङ्केतो यथा गोपालदारके क्रियते तथेन्द्र स्थापनायामपीति तस्या अपि नामेन्द्रत्वं स्यादेवेति नामनिक्षेप एव स्थापनाया अन्तर्भाव इत्याह-तीति । व्यक्त्येति-"व्यक्त्याकृति-जातयः पदाथः" [१] इति गौतमीयं सूत्रम् ,