________________
९२
प्रमोदाविवृतिसंवलितं
एवेत्यभिमन्यते । जगदैक्ये घट-पटादिभेदो न स्यादिति चेत् , न स्यादेव वास्तवः, रज्जौ सर्पभ्रमनिबन्धनसर्पादिवदविद्याजनितोऽनिर्वचनीयस्तु स्यादेवेत्याद्या एतन्मूलिका
औपनिषदादीनांयुक्तयः। अस्यापि चत्वारो निक्षेपा अभि. मताः। ये त्वाहुः-"नायं स्थापनामिच्छति, सङ्ग्रहप्रवणेनानेन नामनिक्षेप एव स्थापनाया उपसङ्ग्रहात् । न च "नामं आवकहियं, ठवणा इत्तरिआ वा होजा आवकहिया वा होज" [अनु०सू०७] इत्येवानयोविशेषाभिधानात् कथभिमन्यते एवं स्वीकुरुते । एतदेव प्रश्नोत्तराभ्यां प्रपञ्चयन्नाह-जगदैक्य इति-सर्वस्य भवनात्मकत्वे भवनस्य महासामान्यसत्तारूपस्यैकत्वात् तद्रूपस्य जगत एवैक्य इत्यर्थः । न स्यादेव वास्तवः वास्तवो घटपटादिभेदो न भवेदेवेत्यर्थः । वास्तवघट-पटादिभेदनिषेधे कल्पितो घट-पटादिभेदोऽनुमतः,स एव तु कीदृगित्यपेक्षायामाह-रज्जाविति-स्पष्टम् । निक्षेपचतुष्टयाभ्युपगन्तृत्वं नैगमवदेव सङ्ग्रहस्येत्याह-अस्यापीति-सङ्ग्रहस्यापीत्यर्थः । स्थापनाभ्युपगन्तृत्वं न सङ्ग्रहस्येत्याचार्यदेशीयानां मतं प्रतिक्षेप्तुमुपन्यस्यति-ये त्वाहुरिति-सोऽयं विशेषो नाम-स्थापनासाधारण एव संगृह्यतामिति' इत्यन्तमेतन्मतपरिष्कारः। अयं सङ्ग्रहनयः । एतन्नये किं स्थापनैव नास्ति येन तनिक्षेपस्यानभ्युपगम इत्यपेक्षायामाह-सङ्ग्रहप्रवणेनेति । अनेन सङ्ग्रहनयेन । 'न च' इत्यस्य 'आशङ्कनीयम्' इत्यनेनान्वयः। नाममिति-"नाम यावत्कथिकं स्थापना इत्वरिका वा भवेद् यावत्कथिका वा भवेद्" इति संस्कृतम् , यावत्कथिकं यावद्रव्यभावि, यथा-मेर्वादिनाम यावन्मेरुर्वर्तते तावत्कालस्थायि । इत्वरिका यस्य स्थापना तस्मिन् सत्येव विनाशिनी, यथा-इन्द्रादिप्रतिकृतिः, स्थापनावत इन्द्रादेः सत्त्वेऽपि काष्ठादिनिर्मिता भित्त्यादिगतरेखोपरेखादिजनितचित्रविशेषस्वरूपा वेन्द्रादिप्रतिकृतिविनाशिनी । अनयोः नाम-स्थापनयोः । नाम्नोऽपि