________________
नयरहस्यप्रकरणम् ।
९१
"संगहिय-पिंडियत्थं संगहवयणं समासओ बिंति" [ विशेषावश्यकभाष्य गाथा २१८३ ] ति सूत्रम् ।
अत्र सङ्गृहीतं सामान्याभिमुखग्रहणगृहीतम्, पिण्डितं च विवक्षितक जात्युपरागेण प्रतिपिपादयिषितमित्यर्थः । सगृहीतं महासामान्यम्, पिण्डितं तु सामान्यविशेष इति वार्थः । " अर्थानां सर्वैकदेशसङ्ग्रहणं सङ्ग्रहः" इति तत्त्वार्थभाष्यम् [अ० १ सू० ३५ ] | अत्र सर्व सामान्यम्, एकदेशन विशेषस्तयोः सग्रहणं सामान्यैकशेषस्वीकार इत्यर्थः । अयं हि घटादीनां भवनानर्थान्तरत्वात् तन्मात्रत्वमेव स्वीकुरुते, घटादिविशेषविकल्पस्त्वविद्योपजनित
ग्रहलक्षणप्रतिपादकं सूत्रमखिति संगहिय० इति - "संगृहीतपिण्डतार्थं सङ्ग्रहवचनं समासतो ध्रुवन्ति इति संस्कृतम् । सूत्रार्थमुपदर्शयति अत्रेति - अस्मिन् सूत्र इत्यर्थः । अर्थ: "संगहिय-पिंडियत्थं" इत्यस्यार्थः । कल्पान्तरमाह-रांगृहीतमिति । तत्त्वार्थभाष्योक्तं तलक्षणमाह- अर्थानामिति । अत्र अस्मिन् भाये । तयोः सामान्य विशेषयोः । सामान्येकशेषस्वीकारः सामान्यमात्राभ्युपगमः अर्थः सर्वैकदेशसङ्ग्रहणम्' इत्यस्यार्थः । सङ्ग्रहनयो वस्तुमास्य सन्मानत्वमेव स्वीकरोतीत्युपपादयति-अयं हीत्यादिना । अयं सङ्ग्रहनयः । हि यतः । भवनेति 'भू सत्तायाम् इति व्याकृतितो भवनं सत्ता, तदनर्थान्तरत्वात् तदभिन्नत्वात् । तन्मात्रत्वमेव भवनमात्रत्वमेव। स्वीकुरुते घटादीनां वस्तूनां सदैकरूपत्वमेव सङ्ग्रहोऽभ्युपगच्छति । एवं सति सर्वत्र सन् सन् इत्येवं ज्ञानं भवेद्, न तु घटोऽयं पटोऽयमित्यादिबोधः, सभिन्नानां घटादीनामभावादित्यत आह - घटादिविशेषविकल्पस्त्विति-अयं घटोऽयं पट इत्यादिविशेषावगाहिनिर्णयः पुनरित्यर्थः । अविद्योपजनित एव अविद्यात्मकदोषप्रभव एव, भ्रान्ताः सर्व एव विशेषविकल्पा दोषसमुद्भवा इति यावत् । इत्य
2