________________
९०
प्रमोदाविवृतिसंवलितं
यथासम्भवमुपादेयः, तेन न प्रस्थकस्थले सामान्यविधेरसङ्ग्रहादनुपपत्तिः। तत्प्रवणत्वं च तन्नियतवुद्धिव्यपदेशजनकत्वम् , तेन न नानार्थरूपसङ्ग्रहस्य नयजन्यत्वानुपपत्तिदोषः। विशेषविनिर्मोक एव । तेन अशुद्धविषयविनिर्मोकस्यापि सङ्ग्रहपदेन ग्रहणेन, तेन न अनुपपत्तिरित्यन्वयः। प्रस्थकस्थले वनगमनदारुच्छेदनादीनामपि प्रस्थकत्वेन नैगम व्यवहारयोरुपगमः, समहस्य तु तत्रोपचरितविषयलक्षणो योऽशुद्धविषयस्तद्विनिर्मोकेण मापनक्रियोपहितस्यैव प्रस्थकस्याभ्युपगम इति' न तत्र विशेषविनिर्मोकलक्षणः सङ्ग्रहः किन्त्वशुद्धविषयविनिर्मोक एव, नापि च सामान्यविधिस्तत्रेति केवलविशेषविनिर्माकस्यैव सङ्ग्रहपदेन विवक्षणे तत्रत्यसङ्ग्रहस्यासङ्ग्रहाद् याऽनुपपत्तिः साऽशुद्धविषयविनिोकस्यापि सङ्ग्रहपदेन ब्रहणेन नेत्याह-प्रस्थकस्थल इति । प्रवणत्वमन्यत्र जनकतालक्षणं समर्थत्वमेव, तच्च प्रकृते न सम्भवति विशेषविनिर्मोकाशुद्धविषयविनिर्मोकादिरूपसङ्ग्रहेऽध्यवसायविशेषलक्षणसङ्ग्रहनयजन्यत्वस्याभावेन तजनकत्वस्य सङ्ग्रहनयेऽभावादित्यत आह-तत्प्रवणत्वंचेति। तन्नियतेति-विशेषविनिर्मोकाशुद्धविषयविनिर्मोकाधन्यतमात्मकनगमायुपगतार्थसङ्ग्रहनियतबुद्धिव्यपदेशजनकत्वमित्यर्थः । तेन तत्प्रवणत्वस्य तन्नियतबुद्धिव्यपदेशजनकत्वरूपत्वेन । नानेति-नानार्थरूपो विशेषविनिर्मोकाशुद्धविषयविनिर्माकाद्यनेकार्थस्वरूपो यः सङ्ग्रहो नैगमाद्युपगतार्थसङ्ग्रहस्तस्याध्यवसायविशेषस्वरूपसङ्ग्रहनयजन्यत्वानुपपत्तिलक्षणो दोषो नेत्यर्थः, सङ्ग्रहनयेनविशेषविनिर्मोकाऽशुद्धविषयविनिर्मोकादिनियतबुद्धिव्यपदेशयोः सम्भवेन तजनकत्वस्य सङ्ग्रहनये सम्भवादुक्तरूपप्रवणत्वविवक्षायामनुपपत्त्यभावात् । एवं च विशेषविनिर्मोकाऽशुद्धविषयविनिर्मोका. धन्यतमात्मकनगमायुपगतार्थसङ्ग्रहनियतबुद्धिव्यपदेशजनकाध्यवसायविशेषत्वं सङ्ग्रहत्वमिति सङ्ग्रहसामान्यलक्षणं बोध्यम् ।