SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ नयरहस्यप्रकरणम्। एवेति वाच्यम् , तथाप्यन्यत्वस्य स्वविषयविलक्षणविषयत्वरूपस्य निवेशेन नैगमभेदेषु विशुद्धनैगमे विशेषणस्य पर्यायस्याकल्पितत्वसिद्धेरप्रत्यूहत्वादित्यस्माभिरनुशीलितः पन्थाः समाकलितस्वसमयरहस्यैर्दिव्यदृशा निभालनीयः॥१॥ " नैगमायुधगतार्थसङ्ग्रहप्रवणोऽध्यवसायविशेषः सङ्ग्रहः" । सामान्यनैगमवारणाय नैगमाद्युपगतार्थपदम् । सङ्ग्रहश्च विशेषविनिर्मोकोऽशुद्धविषयविनिर्मोकश्चेत्यादिविशेषणोपरागेण प्रवृत्तिसम्भवात् तत्रान्यनयविधिनियमानुद्देशलक्षणस्वातन्त्र्याभावानोतनियमप्रवृत्तिरिति विशेषणस्य पर्यायस्याकल्पितत्वसिद्धिः स्यादेवेति नैगमे निक्षपचतुष्टयाभ्युपगन्तृत्वं युक्तमेवेत्याह-तथापीति । स्वसमीक्षितोक्तमार्गस्य सूक्ष्मशेमुषीगम्यत्वाववोधनायाह-समाकलितेति । समाकलितस्वसमयरहस्या अपि नापातत उक्तमार्गमववोधु प्रभविष्णव इत्यत उक्तम्-दिव्यदिशेति ॥ ॥ इति नैगमलक्षणनिरूपणम् ।। अथ सङ्ग्रहनयलक्षणनिरूपणम् सङ्ग्रहलक्षणमुपदर्शयति-नैगमेति-विशेष इत्यन्तं लक्षणम् , सङ्ग्रह इति लक्ष्यनिर्दशः । सङ्ग्रहप्रवणोऽध्यवसायविशेषः सङ्ग्रह इत्येतावन्मात्रोक्तो सामान्यनैगमस्यापि सङ्ग्रहप्रवणत्वात् तत्रातिव्यातिवारणाय नैगमायुपगतार्थत्युक्तमित्याह-सामान्यनैगमेति । नैगमाापगतार्थस्य सङ्ग्रहः किंस्वरूप इत्यपेक्षायामाह-संग्रहश्चेति-नैगमनयो हि सामान्य विशेषं चाभ्युपगच्छतीति तदुपगतार्थः सामान्यं विशेषश्च, तत्सङ्ग्रहश्च विशेषपरित्यागेन सामान्योररीकारः, एवं व्यवहारादिनया विशेषमुपयन्ति ततस्तदुपगतार्थो विशेषः, तत्सङ्ग्रहोऽपि
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy