________________
प्रमोदाविवृतिसंवलितं
इत्यत्र संग्रहन यस्वीकृतात्मसामान्यसामायिकविधिनियमनाय प्रवृत्तानां पर्यायशुद्धिमतां व्यवहारादिनयानां यावदेवभूतमुत्तरोत्तरपर्यायकदम्बकविशेषणोपरागेणैव प्रवृत्तिदर्शनात् । न च तत्र पर्यायनयानां संग्रहस्वीकृत. विधिविशेषपर्यवसानार्थ पर्यायविशेषणमुद्रया प्रवृत्तावपि 'सविशेषण' इत्यादिन्यायाच्छुद्धपर्यायविधावेव तात्पर्यात् , अन्यनयविधिनियमानुदेशलक्षणस्वातन्त्र्येण नयानां स्वविषयनिर्देशे विशेषणस्य कल्पितत्वनियम संस्कृतम् । अत्र निरुक्तावश्यकगाथायाम् । संग्रहेति-संग्रहनयस्वीकृतो य आत्मसामान्य सामायिकमिति विधिस्तनियमनाय, न सर्व एवात्मानः सामायिकं किन्तु सावद्ययोगविरतत्वादिविशेषणः स सामायिकमित्येवम्भतनियमार्थम् । यावदेवम्मृतम् एवम्भूतनयं यावत् । अत्र नये विशेषणं कल्पितमेवेति नियमवादिनोऽभिप्रायमाशङ्कय प्रतिक्षिपति-न चेति-अस्य 'वाच्यम्' इत्यनेन सम्बन्धः । तत्र “सावज." इत्यादिगाथायाम् । 'पर्यायनयानाम्' इत्यस्य 'प्रवृत्तावपि' इत्यनेनान्वयः। सविशेषण० इत्यादीति-"सविशेषणौ विधि-निषेधौ विशेषणमुपस
क्रामतः” इति न्यायादित्यर्थः, पर्यायविशिष्टात्मसामान्यसामायिकविधौ तात्पथै सत्येव पर्यायाणां विशेषणत्वं भवेत् , यदा तु पर्यायविधावेव तात्पर्य तदा तेषां विशेषणत्वमेव नास्तीति कल्पितत्वाभावेऽपि न क्षतिरित्यभिप्रायः । एवं सति कुत्र विशेषणस्य कल्पितत्वनियमप्रवृत्तिरित्यपेक्षायामाह-अन्यनयेति-प्रकृते तु अन्यनयः सङ्ग्रहस्तेन स्वीकृतस्यात्मसामान्यसामायिकविधेनियमोद्देशेनैव व्यवहारादीनां स्वविषयनिर्देश इति स्वातन्त्र्याभावान्नात्रोक्तनियम इति। सामान्यं यथा सङ्ग्रहस्य विषयस्तथा विशुद्धनैगमस्यापीति स्वविषयविलक्षणविषयत्वरूपमन्यत्वं नैगमापेक्षया न सङ्ग्रहस्येति सङ्ग्रहनयस्वीकृतसामान्यविधिनियमनाय प्रवृत्तानां नैगममेदानां पर्याय