________________
नयरहस्यप्रकरणम् ।
७
-
-
-
नयोः कल्पितयोः कुण्डलतापन्नं स्वर्णम् , पत्रस्य नीलतेत्यादाविव विशेषणतयाभिधानं तु न स्वविषयच्याघातायेत्यभिप्रायेण महता प्रबन्धेन' भाष्यकृता व्याख्याता। मतान्तराभिप्रायेण तु पर्यायार्थिक एवं यस्य कल्पितस्य विशेषणत्वम् , द्रव्याथिके तुप्रागुपदर्शितदिशा पर्यायस्याकल्पितस्यापि विशेषणत्वं न्याय्यमेव । न च नये विशेषणं कल्पितमेवेति नियमः
"सावजजोगविरओ तिगुत्तो छसु संजओ।
उवउत्तो जयमाणो आया सामाइयं होई" !!१४९।। [आवश्यकमूल भाष्यगाथा, 'दे-ला' ३२७ तमपृष्टायभागे] त्यादि-द्रव्यनयविषये शुद्धद्रव्ये विभिन्नस्य कल्पितस्य पर्यायस्य विशेपणतयाऽभिधानं कुण्डलतापन्नं स्वर्णमित्यादाविव, पर्यायनयविषये शुद्धपर्याये विभिन्नस्य कल्पितस्य द्रव्यस्य विशेषणतयाऽभिधान पत्रस्य नीलतेत्यादाविव न स्वविपयविघातायेत्यर्थः । स्वथं ग्रन्थकदाहमन्तान्तरेति-यन्मते द्रव्यार्थिकस्य चत्वारोऽपि निक्षेपा अभिमताः पर्यायार्थिकस्य तु भावनिक्षपोऽनुमतस्तन्मताभिप्रायेणेत्यर्थः । पर्यायार्थिक एवेति-पर्यायार्थिके कल्पितस्य द्रव्यस्य विशेषणत्वे वस्तुतो द्रव्यं नास्त्येव, भाव एव तु वस्तुतः समस्तीति भावनिक्षेपाभ्युपगन्तृत्वमेव पर्यायस्येत्यर्थात् प्राप्तमेव । द्रव्यार्थिके विति-द्रव्यार्थिकेऽकल्पितस्यापि पर्यायस्य विशेषणत्वे पर्यायोऽपि वस्तुतः समस्तीति निक्षेपचतुष्टयाभ्युपगन्तृत्वमर्थाद द्रव्यार्थिकस्य प्राप्तमेवेत्यभिसन्धिः । नयेऽकल्पितस्य विशेषणत्वं न सम्भवतीत्याशङ्कय प्रतिक्षिपतिन चेति । निषेधे हेतुमाह-सावज० इति-“सावद्ययोगविरतः त्रिगुप्तः षट्स संयतः। उपयुक्तो यतमान आत्मा सामायिकं भवति" इति