________________
प्रमोदाविवृतिसंवलितं
तत्वार्थवृत्तावपि - " अत्र चाद्या नामादयस्त्रयो विकल्पा द्रव्यार्थिकस्य तथा तथा सर्वार्थत्वात् । पाश्चात्यः पर्यायनयस्य तथापरिणति विज्ञानाभ्याम्" इति [अ. १. सू. ५. ] एतन्मतावष्टम्भेनैव
,
"जीवो गुणपडिवन्नो णयस्स दव्वट्टियस्स सामइयं । सो चैव पज्जवणयट्टियस्स जीवस्स एस गुणो" ॥ [आवश्यक निर्यु० गा० ७९२, विशेषावश्यक निर्यु० गा० २६४३] इत्यावश्यकगाथा 'किं द्रव्यं गुणो वा सामायिकमिति चिन्तायां द्रव्यार्थिकनयमते गुणं प्रतिपन्नो जीवः सामायिकम्, पर्यायार्थिकनयमते तु जीवस्य गुण एव सामायिकमित्युत्तरम् अत्र च द्रव्य - पर्यायनययोः शुद्धद्रव्य पर्यायावेव विषयौ, तत्र पर्याय-द्रव्ययोर्विभि रूपस्वातन्त्र्येण नामादित्रयविषयत्वमेव द्रव्यार्थिकस्येत्यभिप्रेत्य तथोक्तिरित्यन्वयः । तथेोक्तिः "नामाइतियं दव्वट्ठियस्स" इत्युक्तिः । अत एव मतान्तराश्रयणत एव । तथा तथा नामादित्रिप्रकारतः । सर्वार्थत्वात् अर्थमात्रव्यापित्वाद्, द्रव्यार्थिकनयो नाम स्थापना द्रव्यरूपैः सर्वत्रार्थे प्रवर्तत इत्यर्थः । पाश्चात्यः भावनिक्षेपः । तथापरिणति - विज्ञानाभ्यामिति - वर्तमानपर्याय एव भावः, वस्तु च प्रतिक्षणं परिणमदेवास्ते, प्रतिक्षणमन्यदन्यदेव भवतीति ज्ञायते च तथैवेति यच्च प्रतिक्षणमन्यत्वं यच्च तज्ज्ञानं तदेव भावः, स एव च पर्यायनयस्य विषय इति । एतन्मतावष्टम्भेनैव मुख्यत्वरूपस्वातन्त्र्येण नामादित्रयविषयत्वमेव द्रव्यार्थिकस्येति मतावलम्बनेनैवेत्यर्थः । " जीवो०" इत्यादिपूर्वार्धस्य संस्कृतं दर्शितमेव । “सो चेव०" इति - " स एव पर्यवनयस्य जीवस्य एष गुणः" इति । इत्यावश्यकगाथा भाष्यकृता व्याख्यातेति सम्बन्धः । तद्व्याख्यानमुल्लिखति - किं द्रव्यमित्यादिना । अत्र च एतन्मते च । तत्रे
८६