________________
नयरहस्यप्रकरणम्।
भावं चिय सद्दणया सेसा इच्छंति सव्वणिक्खेवे"। [विशेषाव० भा० गा० २८४७] तथा-"सव्वणया भावमिच्छंति" [विशेषाव० भा० गा० ३६०१] ति वदतां भाष्यकृतां कोऽभिप्राय इति चेत् , अयमभिप्रायः-पूर्व शुद्धचरणोपयोगरूपभावमङ्गलाधिकारसम्बन्धान्नैगमादिना जलाहरणादिरूपभावघटाभ्युपगमेऽपि घटोपयोगरूपभावघटानभ्युपगमात् तथोक्तिः, पृथगनिक्षेपाच न प्रत्ययस्याभिधानतुल्यता, अग्रे तु व्यवस्थाधिकाराद् विशेषोक्तिरिति, मुख्यत्वरूपस्वातन्त्र्येण नामादित्रयविषयत्वमेव द्रव्यार्थिकस्येत्यभिप्रेत्य मतान्तरेण वा तथोक्तिः, अत एव द्रव्यार्थिकस्य भावश्च पर्यवनयस्य" इति संस्कृतम् । भावं चिय० इनि"भावमेव शब्दनयाः शेषा इच्छन्ति सर्वनिक्षेपान्”। सव्व० इति-"सर्वनया भावमिच्छन्ति। भाष्यकृतामभिप्रायस्योपवर्णनेनोत्तरयतिअयमभिप्राय इति । पूर्वमिति-'णामाइतियं' इत्यादिना पूर्व यद् द्रव्यार्थिकस्य नामादिनिक्षेपत्रयाभ्युपगन्तृत्ववचनं तच्छुद्धचरणोपयोगरूपभावमङ्गलाधिकारसम्बन्धात् , उपयोगलक्षणभावाभ्युपगमश्च न नैगमादेः, जलाहरणाद्यर्थक्रियाकायव भावघट इति नैगमादेरभ्युपगमः, न तु घटोपयोगो भावघट इति तदुपगमः। तथोक्तिः “णामाइनिर्य दव्वट्रियस्ल" इत्युक्तिः। “अर्थाऽभिधान-प्रत्ययास्तुल्यनामधेयाः" इति वचनान्नाम्नो नैगमाभ्युपगमविषयत्वे तत्तुल्यत्वादुपयोगस्यापि नैगमाभ्युपगमविषयत्वमास्थेयमिति न शङ्कयम् , नामनिक्षेपबदुपयोगनिक्षेपस्य पृथगनङ्गीकारेणोपयोगस्य नामतुल्यत्वाभावादित्याह-पृथगनिक्षे. पाच्चेति। अग्रे तु पश्चात् पुनः। व्यवस्थाधिकाराद् अस्य नयस्यैतन्निक्षेपःभ्युपगन्तृत्वमित्येवं व्यवस्थाधिकारात् । विशेषोक्तिः "भावं चिय०” इत्याद्यक्तिः। इतीति-स्वरूपवचनम्, एवंस्वरूपोऽभिप्राय इत्यर्थः । मुख्यत्वेति-अत्र वा अथवा मतान्तरेण भाष्यकर्तृमतभिन्नमतेन मुख्यत्व