________________
વર્ષ
प्रमोदाविवृतिसंवलितं
"जीवो गुणपडिवन्नो णयस्स दव्वट्ठियस्स सामइयं " ति [आव० नि० गा० ७९२, विशेषाव० नि० गा० २६४३ ] | न चैवं पर्यायार्थिकत्वापत्तिः, इतराविशेषणत्वरूपप्राधान्येन पर्यायानभ्युपगमात् । शब्दादीनां पर्यायार्थिकनयानां तु नैगमवदविशुद्धयभावान्न नामाद्यभ्युपगन्तृत्वम्, अवास्तवतद्विषयत्वं तु नोक्तविभागव्याघातायेति पर्यालोचयामः । ननु तथापि -
" णामाइतियं दव्वद्वियस्स भावो अ पज्जवणयस्स" त्ति [विशेषाव० भा० गा० ७५ ] पूर्वमभिधाय पश्चात्
जीव० इति - "जीवो गुणप्रतिपन्नो नयस्य द्रव्यार्थिकस्य सामायिकम् " इति संस्कृतम् । ननु नैगमस्योक्तदिशा पर्यायाभ्युपगन्तृत्वे पर्यायार्थिकत्वं प्रसज्यत इत्याशङ्कां प्रतिक्षिपति - न चेति । एवं नैगमस्य द्रव्यविशेषणतया पर्यायाभ्युपगन्तृत्वे । इतराविशेषणतया पर्यायाभ्युपगन्तृत्वलक्षणप्राधान्येन पर्यायाभ्युपगन्तृत्वे सत्येव पर्यायार्थिकत्वस्येष्टत्वेन नैगमे द्रव्यविशेषणतयैव पर्यायाभ्युपगन्तृत्वस्योपगमेन पर्यायार्थिकत्वापत्त्यसम्भवादित्याह - इतरेति । शब्दनयानां निक्षेपचतुप्रयाभ्युपगन्तृत्वाभावं सहेतुकमुपदर्शयति-शब्दादीनामिति । ननु नैगमस्य प्रधानतया पर्यायविषयकत्वाभावेऽपि गौणतया पर्यायविषयकत्वसत्त्वात् तावताऽपि पर्यायार्थिकत्वं भवेदित्यत आह-अवास्तवेति । तद्विषयत्वं पर्यायविषयत्वम् । नोक्तविभागव्याघातायेति, नैगमादयो द्रव्याशिंका ऋजुसूत्रादयः पर्यायार्थिका इत्येवमुक्तो यो नयविभागस्तद्विघाताय नेत्यर्थः । ननूक्तदिशा नैगमनयस्य निक्षेपचतुष्टयाभ्युपगन्तृत्वे व्यवस्थापितेऽपि द्रव्यार्थिकस्य पूर्व नामादिनिक्षेपत्रयाभ्युपगन्तृत्वकथनं पञ्चान्निक्षेपचतुष्टयाभ्युपगन्तृत्वकथनं च भाष्यकृतां किमभिप्रायकमिति पृच्छति - नन्विति । णामाइतियं० इति - "नामादित्रिकं