________________
नयरहस्यप्रकरणम् ।
समुदितयोरपि मिथ्याष्टित्वाद, अत्यन्ताभेदे पर्यायद्वयासहोक्तिप्रसङ्गात् , तथा च "गुणो द्रव्यम्" इति द्रव्यार्थिकनयाभिलापानुपपत्तः, अत्यन्तभेदेऽपि पर्यायार्थिन द्रव्यग्रहे द्रव्यार्थिकस्यान्तर्गड्डत्वप्रसक्तः, एकस्मिन् द्रव्यपक्षे पर्यायार्थिकनयमतेऽपि द्रव्यं सामायिकमित्यस्याविरोधप्रसङ्गात्, एतन्मतस्य भाष्यकृतैव निरस्तत्वाचेति चेत् , अन्रोच्यते-अविशुद्धानां नैगमभेदानां नामाद्यभ्युपगमप्रवणत्वेऽपि विशुद्धनैगमभेदस्य द्रव्यविशेषणतया पर्यायाभ्युपगमान्न तत्र भावनिक्षेपानुपपत्तिः, अत एवाऽऽह भगवान् भद्रबाहुः
भेद इति । तथा च पर्यायद्वयाऽसहोक्तौ च। एवं पर्यायार्थिकेनाऽत्यन्तभिन्नतया द्रव्य-पर्याययोरवगाहने यथा पर्यायग्रहार्थ पर्यायार्थिकातिरिक्तस्य नापेक्षा, तथा द्रव्यग्रहार्थमपि द्रव्यग्रहस्थापि तेनैव भावादिति द्रव्यार्थिकस्य व्यर्थत्वमापद्यतेत्याह-अत्यन्तभेदेऽपीति । अन्तगडलं निष्प्रयोजनत्वम् । तथा पर्यायार्थिकस्य द्रव्यविषयत्वे द्रव्यसामायिकमपि तदिष्ट भवेदिति व्यार्थिकस्यैव द्रव्यसामायिकभिति न स्थादित्याह-एकस्मिन् द्रव्यपक्ष इति-पर्यायार्थिको द्रव्यमप्यभ्युपगच्छति गुणादिकम्पीति तस्य द्रव्याभ्युपगमपक्षे इत्यर्थः। एतन्नतस्य अत्यन्ताऽसिनतया द्रव्य पर्यायौ द्रव्यार्थिकोऽभ्युपगच्छति,अत्यन्तभिन्नतया तो पर्यायार्थिकोऽभ्युपगच्छतीति मतस्य । समाधत्ते-अत्रोव्यत इति । अत्र नैगमस्य निक्षेपचतुष्टयाभ्युपगन्तृत्वे द्रष्यार्थिकत्वहानिरिति प्रक्षे। उच्यते तत्प्रतिविधानमभिधीयते। 'द्रव्यविशेषणतया' इत्युक्त्या विशेप्यतयाद्रव्यस्यैवाभ्युपगम इति द्रव्यार्थिकत्वमित्यावेदितम् । तत्र नैगमे । अत एव नैगमनये द्रव्यविशेषणतया पर्यायाभ्युपगमादेव ।