________________
नयरहस्यप्रकरणम्।
९७
"लोकव्यवहारोपयिकोऽध्यवसायविशेषो व्यवहारः"। ___"वचइ विणिच्छियत्थं, ववहारो सव्वदव्वेसु" [विशेषावश्यकनि० गा० २१८३] त्ति सूत्रम् । विनिश्चितार्थप्राप्तिश्चास्य सामान्यानभ्युपगमे सति विशेषाभ्युप. गमात् , अत एव विशेषेणावहियते निराक्रियते सामान्यमनेनेति निरुत्त्युपपत्तिः, जलाहरणाद्युपयोगिनो घटादिविशेषानेवायमङ्गीकरोति न तु सामान्यम्, अर्थ
अथ व्यवहारनयं प्ररूपयति
लोकेति-'व्यवहारः' इति लक्ष्यनिर्देशः, 'लोक०' इत्यादि लक्षणम् । उक्तलक्षणे सूत्रं प्रमाणयति-वच्चइ०त्ति-"व्रजति विनिश्चितार्थ व्यवहारः सर्वद्रव्येषु” इति संस्कृतम् । अनेन सूत्रेण विशेषाभ्युपगमस्य लोकव्यवहारोपयिकस्य कथं लाभ इत्यपेक्षायामाह-विनिश्चितार्थप्राप्तिथेति । अस्य व्यवहारस्य । विनिश्चितार्थप्राप्तिर्नाम-अयं धर्मास्तिकायो गत्युपग्रहकारी, स्थित्युपग्रहकारी अधर्मास्तिकाय इत्येवं विशेषेण व्यवहारोपयोगिना धर्मण निश्चितो योऽर्थस्तस्य प्राप्तिः, व्यवहारेऽर्थप्राप्तः प्राधान्यात् , तया निवृत्त्युपेक्ष अपि उपलक्षणीये, व्यवहारस्य प्रवृत्ति-निवृत्युपेक्षालक्षणत्वादिति बोध्यम् । अत एव व्यवहारस्य सामान्यानभ्युपगमपुरस्सरविशेषाभ्युपगमप्रवणत्वादेव। अनेन अध्यवसायविशेषेण । विशेषाभ्युपगन्तृत्व-सामान्यानपगन्तुत्ने ज्यनहारस्य व्यवस्थापयति-जलाहरणाापयोगिल इति । अयं व्यवहारः । काय सामान्यं नान्युपगच्छत्तीत्यपेक्षायामाह-अक्रिया गोरेति। तस्य सामान्यस्य । अर्थक्रियाकारित्वमेव वस्तुनः स . नहि घटत्वद्रव्यत्व-तत्त्वादिभिः सामान्यैर्जलाबाहरणादिलक्षणार्थकिया क्रियते किन्तु घटादिविशेषस्वरूपव्यक्त्यैवेति शिवस्यैवानियाकारित्वलक्षणसत्त्यादभ्युपगमो न तुक्तसत्त्वलक्षणविरहिणः सामान्यस्येति भावः। नन्वनुभूयमानस्यापलापोऽनुभवविरोधान्न युक्तः, अन्यथा विशेषस्यापलाप शून्यतैव जगतः स्यात्, अनुभूयते च घटोऽयं